________________
तत्त्वबोधविधायिनी व्याख्या। १३१ यस्यात्राभ्युपगमे, परलोकवादिनः स्वपक्षमनायाससिद्धमेव मन्यन्ते । नहि दृष्टेsनुपपन्नमिति न्यायात्। यथैव हि निश्चयरूपा मातृपितृजन्मप्रतिबद्धत्वसिद्धिः, तथैवेहजन्मसंस्कारव्यावृत्तादिजन्मप्रज्ञाद्याकारविशेषान्निजजन्मान्तरप्रतिबद्धत्वसिद्धिरपि प्रत्यक्षनिश्चिता स्यादिति न परलोकक्षतिः । नच निश्चयप्रत्ययोऽनभ्यासदशायामनुमानतामतिकामति; पूर्वरूपसाधर्म्यात्तत्तथाप्रसाधितां नानुमेयतामतिपततीति न्यायात्, अन्वयव्यतिरेकपक्षधर्मताऽनुसरणस्यानभ्यासदशायामुपलब्धेः। अभ्यासदशायां च पक्षधर्मवाद्यनुसरणस्यान्यत्राप्यसंवेदनात्, सिद्धमनुमानप्रतीतवं परलोकस्य । अथेतरेतराश्रयदोषादनुमानं नास्त्येवैवंविधे विषय इत्युच्येत । नन्वेवं सति सर्वभेदाभावतो व्यवहारोच्छेद इति तदुच्छेदमनभ्युपगच्छता व्यवहारार्थिनाऽवश्यमनुमानमभ्युपगन्तव्यम् । एतेन प्रत्यक्षपूर्वकत्वाभावेऽप्यनुमानस्य प्रामाण्यं प्रतिपादितम्। नचानुमानपूर्वकत्वेऽपीतरेतराश्रयदोषानुषङ्गः । तस्यैवेतरेतराश्रयदोषस्य व्यवहारप्रवृत्तितो निराकरणात् । यदप्युक्तम् ; अनुमानपूर्वकत्वेऽनवस्थाप्रसङ्गान्नानुमानप्रवृत्तिरिति। तदप्यसङ्गतम्।एवं हि सति प्रत्यक्षगृहीतेऽप्यर्थे विप्रतिपत्तिविषये नानुमानप्रवृत्तिमन्तरेण तन्निरास इति बाह्येऽर्थे प्रत्यक्षस्याव्यापारात्पुनरप्यद्वैतापत्तेः, शून्यतापत्तेर्वा व्यवहारोच्छेद इति व्यवहारबलात् सैवानवस्था परािहयत इत्यभ्युपगमवादेन चैतदुक्तम् । अन्यथा बाह्यार्थव्यवस्थापनाय प्रत्यक्षं प्रवर्तते; तथा प्रदर्शितहेतााप्तिप्रसाधनार्थ केषांचिन्मतेन निर्विकल्पम् ; अन्येषां तु सविकल्पकं चक्षुरादिकरणव्यापारजन्यम् ; अपरेषां मानसं; केषाश्चिघ्यावृत्तिग्रहणोपयोगि ज्ञानम्; अन्येषां प्रत्यक्षानुपलम्भबलोद्भूतालिङ्गजोहाख्यं परोक्षं प्रमाणं तत्र व्याप्रियत इति कथमनुमानेन प्रतिबन्धग्रहणेऽनवस्थेतरेतराश्रयदोषप्रसक्तिः परलोकवादिनः प्रति भवता प्रेर्येत । यदप्युक्तम् ; सर्वमप्यनुमानमस्मान्प्रति प्रमाणत्वेनासिद्धमित्यादि। तदप्यसङ्गतम् । यतः किमनुमानमात्रस्याप्रामाण्यं भवता प्रतिपादयितुमभिप्रेतम् , अनुमानमप्रमाणमित्यादिग्रन्थेन; अथ तान्त्रिकलक्षणक्षेपोऽतीन्द्रियार्थानुमानप्रतिक्षेपो वा । न तावदनुमानमात्रप्रतिषेधो युक्तः। लोकव्यवहारोच्छेदप्रसङ्गात् । यतः प्रतियन्ति कोविदाः कस्यचिदर्थस्य दर्शने नियमतः किश्चिदर्थान्तरं, न तु सर्वस्मात्सर्वस्यावगमः ।