________________
सम्मतिताख्यप्रकरणस्यन युक्तः। वर्तमानकालसंबन्धित्वेन वर्तमानस्येव तत्कालसंबन्धित्वेनातीतादेरपि सत्त्वसंभवात्। अथातीतादेः कालस्याभावात् तत्संबन्धिनोऽप्यभावः, तदसत्त्वं च प्रतिपादितं पूर्वपक्षवादिनाऽनवस्थेतरेतराश्रयादिदोषप्रतिपादनेन । सत्यं प्रतिपादितं नच सम्यक् । तथाहि । नास्माभिरपरातीतादिकालसंबन्धित्वादस्यातीतादित्वमभ्यु. पगम्यते, येनानवस्था स्यात् ; नापि पदार्थानामतीतादित्वेन कालस्यातीतादित्वम् , येनेतरेतराश्रयदोषः; किन्तु स्वरूप एवातीतादिसमयस्यातीतादित्वम् । तथाहि । अनुभूतवर्तमानत्वसमयोऽतीत इत्युच्यते, अनुभविष्यवर्तमानत्ववानागतः; तत्संबन्धित्वात पदार्थस्याप्यतीतानागतत्वे अविरुद्धे । अथ यथाऽतीतादेः समयस्य खरूपेणैवातीतादित्वं तथा पदार्थानामपि तद्भविष्यतीति व्यर्थस्तदभ्युपगमः। एतञ्चात्यन्तासङ्गतम् । नोकपदार्थधर्मस्तदन्यत्राप्यासञ्जयितुं युक्तः। अन्यथा निम्बा. देस्तितता गुडादावप्यासञ्जनीया स्यात् , नच साऽत्रैव प्रत्यक्षसिद्धेत्यन्यत्रासाने तद्विरोध इत्युत्तरम् । प्रकृतेऽप्यस्योत्तरस्य समानत्वात्। भवतु पदार्थधर्म एवातीतादित्वं, तथापि नास्माकमभ्युपगमक्षतिः। विशिष्ट पदार्थपरिणामस्यैवातीतादिकालत्वेनेष्टेः, परिणामवर्तनादिपरापरत्वेत्याद्यागमात् । तथाहि । स्मरणविषयत्वं पदार्थस्यातीतत्वमुच्यते । अनुभवविषयत्वं वर्तमानत्वं, स्थिरावस्थादर्शनलिङ्गबलोत्पद्यमानकालान्तरस्थाय्ययं पदार्थ इत्यनुमानविषयत्वं धर्मोऽनागतकालत्वमिति। तेन यदुच्यते, यदि खत एव कालस्यातीतादित्वं, पदार्थस्यापि तत् स्वत एव स्यादिति परेण तत्सिद्ध साधितम् । तदतीतादिकालस्य सत्त्वान्न तत्कालसंबन्धित्वेनातीतादेः पदार्थस्याऽसत्त्वम्।वर्तमानकालसंबन्धित्वेन त्वतीतादेरसत्त्वप्रतिपादनेऽभिमतमेव प्रतिपादितं भवति। नह्यतीतकालसंबन्धित्वसत्त्वमेवैतज्ज्ञानकालसंबन्धित्वमस्माभिरभ्युपगम्यते। नचैतत्कालसंबन्धित्वेनासत्त्वे खकालसंबन्धित्वेनाप्यतीतादेरस. त्वं भवति।अन्यथैतत्कालसंबन्धित्वस्याप्यतीतादिकालसंबन्धित्वेनासत्त्वात् सर्वा. भावः स्यादिति सकलव्यवहारोच्छेदः। अथापि स्यात्, भवत्वतीतादेः सत्त्वं, तथापि सर्वज्ञज्ञाने न तस्य प्रतिभासः; तज्ज्ञानकाले तस्यासन्निहितत्वात् । सन्निधाने वा तज्ज्ञानावभासिन इव वर्तमानकालसंबन्धिनोऽतीतादेरपि वर्तमानकालसंबन्धित्वप्राप्तेः। नहि वर्तमानस्यापि सन्निहितत्वेन तत्कालज्ञानप्रतिभासित्वं मुक्त्वाऽन्य