SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सम्मतिताख्यप्रकरणस्यकक्षय इति । यतस्तत्र निम्बाद्यौषधोपयोगस्यैव नोत्कर्षनिष्ठा आपादयितुं शक्या । तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् । अन्यथौषधोपयोगाधारस्यैव विनाशः स्यात् । चिकित्साशास्त्रस्य च धातुदोषसाम्यापादनाभिप्रायेणैव प्रवृत्तेः, तत्प्रतिपादितौषधोपयोगस्योद्रिक्तधातुदोषसाम्यविधाने एव व्यापारो, न पुनस्तस्य निर्मूलने । अन्यथा दोषान्तरस्यात्यन्तक्षये मरणावाप्तेरिति न श्लेष्मणा तथाभूतेनानैकान्तिको हेतुः । नच सम्यगज्ञानसात्मीभावेऽपि पुनर्मिथ्याज्ञानस्यापि संभवो भविष्यति तदुत्कर्ष इव सम्यगज्ञानस्येति वक्तुं युक्तम् । यतो मिथ्याज्ञाने, रागादौ वा दोषदर्शनात्, तद्विपक्षे च सम्यगज्ञानवैराग्यलक्षणे गुणदर्शनात्तत्र पुनरभ्यासप्रवृत्तिसंभवात् प्रकृष्टेऽपि मिथ्याज्ञानरागादावुत्पद्यते एव सम्यग्ज्ञानवैराग्ये । नैवं तयोः प्रकर्षावस्थायां दोषदर्शनं, तत्र तद्विपर्यये वा गुणदर्शनं, येन पुनस्तत् सात्मीभावेऽपि मिथ्याज्ञानरागादेरुत्पत्तिः संभाव्येत। नचानक्षजस्य ज्ञानस्य सर्ववित्संबन्धिनः कथं प्रत्यक्षशब्दवाच्यतेति वक्तुं युक्तम् । यतोऽक्षजत्वं प्रत्यक्षस्य शब्दव्युत्पत्तिनिमित्तमेव;न पुनः शब्दप्रवृत्तिनिमित्तम् । तन्निमित्तं हि तदेकार्थाश्रितमर्थसाक्षात्कारित्वम्। अन्यद्धि शब्दस्य व्युत्पत्तौ निमित्तम्, अन्यच्च प्रवृत्तौ । यथा गोशब्दस्य गमनं व्युत्पत्ती, गोपिण्डाश्रितगोत्वं प्रवृत्तौ निमित्तम् । अन्यथा यदि यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्ता. वपि; तदा गच्छन्त्यामेव गवि गोशब्दप्रवृत्तिः स्यात् ;न स्थितायाम्। महिष्यादौ च गमनपरिणामवति गोशब्दः प्रवर्तेत । तथाऽत्रापि निमित्तसद्भावात्प्रत्यक्षव्यपदेशः संभवत्येव। यहा। यदेव व्युत्पत्तिनिमित्तं तदेव प्रवृत्तावप्यस्तु, तथापि तच्छन्दवाच्यतायास्तत्र नाभावः । तथाहि । अश्नुते सर्वपदार्थान् ज्ञानात्मना व्याप्नोतीति व्युत्पतिशब्दसमाश्रयणादक्ष आत्मा, तमाश्रितमुत्पाद्यत्वेन तं प्रति गतमिति प्रत्यक्षमिति व्युत्पत्तेः, अभ्युपगमवादेन चाभ्यासवशात्प्राप्तप्रकर्षेण ज्ञानेन सर्वज्ञ इति प्रतिपादितम् । नत्वस्माकमयमभ्युपगमः, किन्तु ज्ञानाद्यावारकघातिकर्मचतुष्टयक्षयोद्भूताशेषज्ञेयव्याप्यनिन्द्रियशब्दलिङ्गसाक्षात्कारिज्ञानवतः सर्वज्ञत्वमभ्युपगम्यते । यच्चोक्तम् । यद्यतीतानागतवर्तमानाशेषपदार्थसाक्षात्कारिज्ञानेन सर्वज्ञस्तदा क्रमेणातीतानागतपदार्थवेदने पदार्थानामानन्यात न ज्ञानपरिसमा
SR No.022462
Book TitleSammatyakhya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasen Divakarsuri
PublisherUnknown
Publication Year
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy