SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सम्मतिताख्यप्रकरणस्य- --- अन्योऽन्याश्रयभावेन न प्रामाण्यं प्रकल्पते” ॥ ३ ॥ इति । · अथापि स्यादर्थक्रियाज्ञानमर्थाभावे न दृष्टमिति न तत्स्वप्रामाण्यनिश्चयेऽ. न्यापेक्षम् ; साधनज्ञानं तु अर्थाभावेऽपि दृष्टमिति तत्प्रामाण्यनिश्चयेऽर्थक्रियाज्ञाना. पेक्षमिति। एतदप्यसङ्गतम्।अर्थक्रियाज्ञानस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात ; नच स्वप्नजाग्रहशाऽवस्थायाः कश्चिद्विशेषः प्रतिपादयितुं शक्यः। अथार्थक्रियाज्ञानं फलावाप्तिरूपत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षम् ;साधनविनि सि पुनर्ज्ञानं नार्थक्रियावाप्तिरूपं, भवति तत्स्वप्रामाण्यनिश्चयेऽन्यापेक्षम् । तथाहि । जलावभासिनि ज्ञाने समुत्पन्ने पानावगाहनार्थिनः किमेतज्ज्ञानविभासि जलमभिमतफलं साधयि. ष्यति, उत नेति जाताशङ्काः तत्प्रामाण्यविचारं प्रत्याद्रियन्ते। पानावगाहनार्थावाप्तिज्ञाने तु समुत्पन्नेऽवाप्तफलत्वान्न तत्प्रामाण्यविचारणाय मनःप्रणिदधति। नैतत्सारम्। अवाप्तफलत्वादित्यस्यानुत्तरत्वात्। तथाहि। यथा ते विचारकत्वाजलज्ञा. नावभासिनो जलस्य किं सत्त्वमुतासत्त्वमिति विचारणायां प्रवृत्तास्तथा फलज्ञाननिर्भासिनोऽप्यर्थस्य सत्त्वासत्त्वविचारणायां प्रवर्त्तन्ते ।अन्यथा तदप्रवृत्तौ तदवभासिनोऽर्थस्यासत्त्वाशङ्कया तज्ज्ञानस्यावस्तुविषयत्वेनाप्रमाणतया शङ्कयमानस्य न तज्जलावभासिप्रवर्तकज्ञानप्रामाण्यव्यवस्थापकत्वम् । ततश्चान्यस्य तत्समानरूपतया प्रामाण्यनिश्चयाभावात्कथमर्थक्रिया प्रवृत्तिनिश्चितप्रामाण्यात् ज्ञानादित्यभ्युपगमः शोभनः॥किंच; भिन्नजातीयं संवादकज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमभ्युपगम्यमानमेकार्थ, भिन्नार्थ वा । यद्येकार्थमित्यभ्युपगमः। स न युक्तः। भवन्मतेनाघटमानत्वात् । तथाहि । रूपज्ञानाद्भिन्नजातीयं स्पर्शादिज्ञानम्, तत्र च स्पर्शादिकमाभाति न रूपम् , रूपज्ञाने तु रूपं, न स्पर्शादिकमाभाति; रूपस्पर्शयोश्च परस्पर भेदः; न चावयवी रूपस्पर्शज्ञानयोरेको विषयतयाऽभ्युपगम्यते; येनैकविषयं भिन्नजातीयं पूर्वज्ञानप्रामाण्यव्यवस्थापकं भवेत्।अपि च। एकविषयत्वेऽपि किं येन स्वरू. पेण व्यवस्थाप्ये ज्ञाने सोऽर्थःप्रतिभाति, किं तेनैव व्यवस्थापके; उतान्येन। तत्र यदि तेनैवेत्यभ्युपगमः। स न युक्तः । व्यवस्थापकस्य तावद्धर्मार्थविषयत्वेन स्मृतिवदप्रमाणत्वेन व्यवस्थापकत्वासम्भवात्। अथ रूपान्तरेण सोऽर्थस्तत्र विज्ञाने प्रतिभाति। नन्वेवं संवाद्यसंवादकयोरेकविषयत्वं न स्यादिति द्वितीय एव पक्षोऽभ्युपगतः स्यात्।
SR No.022462
Book TitleSammatyakhya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasen Divakarsuri
PublisherUnknown
Publication Year
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy