SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ विश्वतत्वप्रकाशः [ ३५निषिद्धत्वेन व्याप्तं तत् पापहेतुत्वं क्रत्वन्तःपातिन्यामपि हिंसायामङ्गीक्रियते तर्हि तव्यापकं निषिद्धत्वमप्यङ्गीकर्तव्यमित्युत्कर्षसमा जातिः। व्यापकं निषिद्धत्वं नाङ्गीक्रियते तर्हि व्याप्यं पापहेतुत्वमपि नाङ्गोकुर्यादित्यपकर्षसमा जातिः। दृष्टान्ते दृष्टस्यानिष्टधर्मस्य पक्षे योजनमुत्कर्षसमा जातिस्तन्निवृत्तौ पक्षस्य साध्यधर्मनिवृत्तिरपकर्षसमा जातिरिति वचनात् । तस्मादुपाधिरसदूषणं जातित्वात् सदूषणेष्वपठितत्वात् अन्यतरपक्ष निर्णयाकारकत्वात् व्याप्तिपक्षधर्मावैकल्यानिश्चायकत्वात् च साधादिवत् । ननु व्याप्तिपक्षधर्मतावैकल्यनिश्चायकत्वाभावेऽपि व्याप्तिसंदेहापादको भवतीति सदूषणत्वमिति चेन्न। तथा च संशयसमजातित्वात् । साधर्म्यवैधोपाधिप्रतिकूलतर्कादिभिर्भूयो दर्शनानिश्चितव्याप्तेः पश्चात् पक्षे संदेहापादकं वचनं संशयसमा जातिरिति वचनात् । ततः क्रत्वन्तःपातिनी हिंसा पापहेतुरेवेति निश्चीयते। तथा च पापहेतोहिंसायाः स्वर्गादिसाधनत्वप्रतिपादकं वचनमप्रमाणमेवेति निश्चीयते । एवं वेदस्याप्रामाण्यनिश्चये तदङ्गानां तन्मूलस्मृतिपुराणादीनां च अप्रामाण्यं निश्चितमेव । तथा ___अतः यज्ञ में अन्तर्भूत हिंसा भी पाप का कारण होती है। उसे ही वेदों में स्वर्ग का साधन माना है। इस लिए वेद अप्रमाण हैं। वेद ही प्रमाण नही हों तो उन पर आधारित वेदांग, स्मृति, पुराण आदि प्रमाण कैसे हो सकते हैं ? इस लिए ' ( ४ ) वेद, (६) वेदांग तथा पुराण, न्याय, मीमांसा एवं धर्मशास्त्र ये धर्म तथा विद्या के चौदह स्थान हैं ' यह याज्ञवल्क्य स्मृति का कथन हमें प्रमाण प्रतीत नही होता। १ अङ्गीक्रियते तथा । २ व्याप्यम् । ३ श्येनयागादौ तत्र तद्व्यापकं निषिद्धत्वं कथं नाङ्गीक्रियते । ४ पापहेतुत्वव्याप्यस्य । ५ साध्ये दृष्टान्तादनिष्टधर्मप्रसङ्ग उत्कर्षसमः। यथ यदि कृतकत्वात् घटवत् अनित्यः शब्दः तदा घटवदेव सावयवः स्यात् । ६ इष्टधर्मनिवृत्तिरपकर्षः । यथा अश्रावणश्च घटो दृष्टः शब्दोऽपि श्रावणो न स्यादविशेषात् । ७ द्वयोः पक्षयोर्मध्ये । ८ साधर्म्यजातिवत् । यथा साधम्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ यथा नित्यः शब्दः कृतकत्वात् घटादिवदित्युक्ते जातिवाद्याह यद्यनित्यघटसाधात् कृतकत्वात् अनित्यः शब्द इष्यते तर्हि नित्याकाशसाधादमूर्तत्वान्नित्यः प्राप्नोति । ९ शिक्षा कल्पो व्याकरणमित्यादीनां षण्णाम् ।
SR No.022461
Book TitleVishva Tattva Prakash
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1964
Total Pages532
LanguageHindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy