SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ एवं जीवोऽपि विज्ञेयो, विशेषस्तूपदश्यते । अविभुः सक्रियश्चाथा-नेकद्रव्यं वपुर्मितः ॥ १२ ॥ चिह्न चास्योपयोगः, स, साकारेतरभेदतः । द्विविधः स यथासङ्ख्यं, पुनश्चाष्टचतुर्विधः ॥१३॥ मतिश्रुतावधिमनः- पर्यवकेवलानि हि । ... मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥ १४ ॥ इत्यष्टधा चतुर्धा च, श्रूयतामत्र कथ्यते। . चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥ १५ ॥ मतिश्चतुर्विधोक्ताव-ग्रहहापायधारणाः । तत्र चावग्रहो द्वैधं, व्यञ्जनार्थप्रभेदतः ॥ १६ ॥ ईहाप्रभृतयस्तु स्यु-बर्थस्यैवाद्यवग्रहः।। स्पर्शजिह्वाघ्राणकर्ण-प्रभेदेन चतुर्विधः ॥ १७ ।। चक्षुर्मनोविधाधिक्यात्, षोढार्थ वग्रहादयः । द्वादशधा पुनः सर्वे, प्रत्येकं परिकीर्तिताः॥१८॥
SR No.022459
Book TitleJain Muktavali Suristava Shatakam Cha
Original Sutra AuthorN/A
AuthorMuninandanvijay
PublisherMansukhbhai Maneklal Shah
Publication Year1923
Total Pages48
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy