SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सटीका हवन्तरं नाम निग्रहस्थानं भवति । तस्मिन्नेव प्रयोगे तथैव सामान्यस्य व्यभिचारेण दूषिते जातिमत्त्वे सतीत्यादि विशेषणमुपाददानो हेत्वन्तरेण निग्टहीतो भवति ॥ ५ ॥ ___ प्रक्षतादर्थादन्यो ऽर्थो ऽर्थान्तरं तदनौपायिकमभिदातो 5 ऽर्थान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः कृतकरादिति हेतुः । हेतुरिति च हिनोतेर्धातोस्तु प्रत्यये कृदनां पदम्। पदं च नामाख्यातोपमर्गनिपातभेदाच्चतुर्विधमिति प्रस्तुत्य नामादौनि व्याचक्षाणः प्रकृतानुपयोगिनार्थान्तरेण निग्टह्यत इति ॥ ६ ॥ . 10 अभिधेयरहितवर्णानुपूर्वी प्रयोगमात्र निरर्थकं नाम निय हस्थानं भवति । अनित्यः शब्दः कचटतपानां गजडदबत्वात् घझढधभवदित्येतदपि सर्वथार्थशून्यत्वान्निग्रहाय भवति साध्यानुपयोगाद्दा ॥ ७ ॥ यत्साधनवाक्यं दूषणं वा किंचित्तिरभिहितमपि पर्षत्प्रति15 वादिभ्यां बोद्धू न शक्यते, तत् क्लिष्टशब्दमप्रसिद्धप्रयोगमति इखोच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । श्रमामर्थ्यसंवरणप्रकारो ह्ययमिति निग्टह्यते ॥ ८ ॥ . पूर्वापरासंगतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानं भवति । यथा दश दाडिमानि षडपूपाः कुण्डम20 जाजिनं पलसपिण्ड इत्यादि॥ ९ ॥ प्रतिज्ञाहेवदाहरणोपनयनिगमवचनक्रममुल्लंघ्यावयवविपर्यासेन प्रयुज्यमानमनुमानवाक्यमप्राप्तकालं नाम निग्रहस्थानं
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy