SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चय' सटीका। श्रादिर्येषां ते प्रतिज्ञाहानिसन्याविरोधादयः । श्रादिशब्देन भेषानपि भेदान्परामृशति । तेषां विभेदतो विशिष्टभेदतः । येन प्रतिज्ञाहान्यादिदूषणजालेन परो निग्रहाते, तन्निग्रहस्थानमित्यर्थः ॥ निग्रहस्थानं च सामान्यतो विविधं, विप्रति5 पत्तिरप्रतिपत्तिय । तत्र विप्रतिपत्तिः माधनाभासे माधमबुद्धिः दूषणभासे च दूषणबुद्धिः। श्रप्रतिपत्तिस्तु साधनस्थादूषणं दूषणस्य चानुद्धरणम् । दिधा हि वादी पराजीयते । यथा। कर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपद्यमान इति विप्रति पत्त्यप्रतिपत्तिभेदाच्च दाविंशतिर्निग्रहस्थानि भवन्ति । तद्यथा । 10 प्रतिज्ञाहानिः १, प्रतिज्ञान्तरं २, प्रतिज्ञाविरोधः ३, प्रतिज्ञासंन्यासः ४, हेत्वन्तरं ५, अर्थातरं ६, निरर्थकं ७, अविज्ञाताथै ८, अपार्थकं ६, अप्राप्तकालं १०, न्यूनं ११, अधिकं १२, पुनरुक्तं १३, अननुभाषणं १४, अज्ञानं १५, अप्रतिभा १६, विक्षेपः १७, मतानुज्ञा १८, पर्यनुयोज्योपे15 क्षणं १६, निरनुयोज्यानुयोगः २०, अपमिद्धान्तः २१, हेवाभासाश्च २२ ॥ अवाप्यननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः, शेषाश्च विप्रतिपत्तिभेदाः ॥ ____ तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म खदृष्टान्ते ऽन्यु20 पगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाइटवदिति साधनं वादी वदन्, परेण सामान्यमैन्द्रियकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते यद्येवं ब्रूया
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy