SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीकः । इन्द्रियार्थमन्त्रिकर्षात्पन्नत्ववर्जाणि च ज्ञानादिविशेषणनि प्रत्यक्षसूत्रादत्रापि संबन्धनौयानि । एषां च व्यवच्छेद्यानि प्रागुक्तानुमारेण खयं परिभाव्यानि। तथा द्वितीयलिङ्गदर्शनपूर्विकाया अविनाभावसंबन्धस्मृतेस्तत्पूर्वकपूर्वकत्वात्तजनकस्यानुमानवनि5 त्यर्थमर्थोपलब्धिग्रहणं कार्य, स्मृतेस्वर्थ विनापि भावात् । ततो ऽयमर्थः। अर्थोपलब्धिरूपमव्यभिचरितमव्यपदेश्यं व्यवसायात्मकं ज्ञानं तत्पूर्वकपूर्वकं यतो लिङ्गादेः समुपजायते तदनुमानमिति १ । तथा ते वे प्रत्यचे लिङ्गलिङ्गिसंबन्धदर्शनं लिङ्ग दर्शनं च पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणादनु10 मानस्याध्यक्षफलदयपूर्वकत्वं ज्ञापितं द्रष्टव्यम् २ । तथा तानि प्रत्यक्षादिसर्वप्रमाणानि पूर्व यस्य तत्तत्पूर्वकमिति विग्रहविशेषाश्रयणेन सर्वप्रमाणपूर्वकत्वमप्यनुमानस्य लभ्यते । न च तेषां पूर्वमप्रकृतत्वात्कथं तच्छब्देन परामर्श इति प्रेर्यम् । यतः साक्षा दप्रकृतत्वेऽपि प्रत्यक्षसूचे व्यवच्छेद्यत्वेन प्रकृतत्वादिति। अस्यां 15 व्याख्यायां नाव्याप्यादिदोषः कश्चनापि। ये तु पूर्वशब्दस्यैकस्य लुप्तस्य निर्देशं नाभ्युपगच्छन्ति, तेषां प्रत्यक्षफलेऽनुमानत्वप्रमक्तिः, तत्फलस्य प्रत्यक्षप्रमाणपूर्वकत्वात्। अथाकारकस्याप्रमाणत्वात्कारकलं लभ्यते। ततोऽयमर्थः। अव्यभिचारिताव्यपदेश्यव्यवसा यात्मिकार्थीपलब्धिजनकमेवाध्यक्षफलं लिङ्गज्ञानमनुमानमिति 20 चेत् । उच्यते । एवमपि विशिष्टज्ञानमेवानुमानं प्रसज्यते । न च ज्ञानस्यैवानुमानत्वं स्मृत्यनुमानागमसंशयप्रतिभाखनज्ञानोहाः सुखादिप्रत्यचमिच्छादयश्च मनसो लिङ्गानौति वचनात्सर्वस्य
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy