SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटोका देशो नास्ति ॥ सर्वचित्ततानामात्मसंवेदनं स्वसंवेदनम् । चित्तं वस्तुमात्रग्राहकं ज्ञानम् । चित्ते भवाश्चैता वस्तुविशेषरूपग्राहकाः सुखदुःखोपेक्षालक्षणाः। तेषामात्मा येन वेद्यते तत्स्वसंवेदनमिति ॥ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् । 5 भृतार्थः प्रमाणोपपनार्थः । भावना पुनः पुनश्चेतसि समारोपः । भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं योगिज्ञानम् ॥ ननु यदि क्षणक्षयिणः परमाणव एव तात्त्विकास्तर्हि किंनिमित्तो ऽयं घटपटमकटलकुटादिस्थलार्थप्रतिभास इति चेत् । निरालम्बन एवायमनादिवितथवासनाप्रवर्तितस्थूलार्थाव10 भासो निर्विषयत्वादाकाशकेशवत्वप्नज्ञानवदेति। यदुक्तम् । बाह्यो न विद्यते [ों यथा बालैर्विकल्प्यते । वामनास्लुठितं चित्तमर्थाभासे प्रवर्तते ॥१॥ इति ॥ नान्यो ऽनुभाव्यो बुझ्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥२॥ इति च ॥ 15 मनु प्रत्यक्षेण क्षणक्षयिपरमाणुस्वरूपं खलक्षणं कथं मंवेद्यत इति चेत् । उच्यते । प्रत्यक्षं हि वर्तमानमेव मनिहितं वस्तुनो रूपं प्रत्येति, न पुन विभृतं, तदसन्निहितत्वात्तस्य । तर्हि प्रत्यक्षानन्तरं नौलरूपतानिर्णयवत्क्षणक्षयनिर्णयः कुतो नोत्पद्यत इति चेत् । उच्यते । तदैव स्मृतिः पूर्वदेशकालदशासंबन्धितां 20 वस्तुनो ऽध्यवस्यन्ती क्षणक्षयनिर्णयमुत्पद्यमानं निवारयति। अत एव मौगतैरिदमभिधीयते । दर्शनेन क्षणिकाचणिकत्वमाधारणम्यार्थस्य विषयौकरणात्, कुतश्चिचमनिमित्तादक्षणिकत्वारोपे
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy