SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ षड्दर्शनसमुच्चयः सटौक। सचेतना अचेतना वा परमाणुप्रचयविशेषाः। ते च स्कन्धाः पञ्च प्रकीर्तिताः। वाक्यस्य मावधारणत्वात्पञ्चैवाख्याताः। न त्वपरः कश्चिदात्माख्यः स्कन्धोऽस्तौति । के ते स्कन्धा इत्याह । विज्ञानमित्यादि। विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, 5 संस्कारस्कन्धः, रूपस्कन्धश्च । एवशब्दः पूरणार्थ, चशब्दः समुच्चये। तत्र रूपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पक विज्ञानं विशिष्टज्ञानं विज्ञानस्कन्धः। निर्विकल्पकं च ज्ञानमेवरूपमवसेयम्। अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकं । 10 बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ इति ॥ --- सुखा दुःखा अदुःखसुखा चेति वेदना वेदनास्कन्धः । वेदना हि पूर्वकृतकर्मविपाकतो जायते । तथा च सुगतः कदाचिशिक्षामटायमानः कण्टकेन चरणे विद्धः प्राह । इत एकनवते कल्ये शक्त्या में पुरुषो हतः। . 15 तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ इति । संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः संज्ञास्कन्धः। तत्र संज्ञा गौरित्यादिका। गोत्वादिकं च तत्प्रतिपत्तिनिमित्तम् । तयोरुद्हणा योजना, तदात्मकः प्रत्ययो नामजात्यादियोजनात्मक सविकल्पकं ज्ञानं संज्ञास्कन्ध इत्यर्थः ॥ पुण्यापुण्यादिधर्म20 समुदायः संस्कारस्कन्धः, यस्य संस्कारस्य प्रबोधात्पूर्वानुभूते विषये स्मरणदि समुत्पद्यते ॥ पृथिवौधात्वादयो रूपादयश्च रूपस्कन्धः। न चैतेभ्यो विज्ञानादिभ्यो व्यतिरिक्तः कश्चनात्माख्यः
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy