SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३६ घड्दर्शनसमुच्चयः सटोकः। माणकत्वात् । तदेवं देशों न पूर्वकोटिकालस्य केवलिस्थितेः संभवादौदारिकशरौरस्थितेश्च यथायुष्कं कारणमेवं प्रक्षेपाहारो ऽपि । तथाहि । तैजसशरीरेण मृदूछतस्याभ्यवहतस्य स्वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन 5 प्रकारेण क्षुदुद्भवो भवति । वेदनौयोदये चेयं समग्रापि सामग्री भगवति केवलिनि संभवति । ततः केन हेतुनासौ न भुंक इति। न च घातिचतुष्टयस्य चुवेदनौयं प्रति सहकारिकारणभावो ऽस्ति येन तदभावात्तदभाव इत्युच्यते । इति सिद्धा केवलिभुनिः । तथा प्रयोगश्चात्र । केवलिनः प्रक्षेपा10 हारो भवति, कवलाहारकेवलित्वयोरविरोधात्, मातवेदनौयवदिति । इति केवलिभुक्रिव्यवस्थापनस्थलमिति ॥ अथ तत्त्वान्याह। जौवाजीवौ तथा पुण्यं पापमानवसंवरौ। बन्धो विनिर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४॥ 15 व्याख्या ॥ चेतनालक्षणो जीवः, तदिपरौतलक्षणस्वजीवः । धर्माधर्माकाशकालपुङ्गलभेदेन त्वसौ पञ्चधा व्यवस्थितः । अनयोरेव योगदर्तिनः सर्वे ऽपि भावा अन्तर्भवन्ति । न हि ज्ञानादयो रूपरमादयश्च द्रव्यगुणा उत्क्षेपणादीनि च कर्माणि मामान्यविशेषसमवायाश्च जीवाजौवव्यतिरेकेणात्मस्थितिं लभन्ते, 20 त देनैकान्ततस्तेषामनुपलम्भात्, तेषां तदात्मकत्वेन प्रतिपत्तेः, अन्यथा तदसत्त्वप्रसङ्गात् । बौद्धादिपरिकल्पितदुःखादितत्त्वानि
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy