SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ घड्दर्शनसमुच्चयः सटीकः । अत्र सांख्यमते। किं तदित्याह । प्रत्यक्षं प्रतीतं, लिङ्गमनमानं, भाब्दं चागमः । चकारोऽत्रापि संबन्धनौयः । तत्र प्रत्यक्षलक्षणमाख्यायते। श्रोत्रादिवृत्तिरविकल्पिका प्रत्यचमिति । श्रोत्रं त्वक् चक्षुषो जिका नासिका चेति पञ्चमी । इति । 5 श्रोत्रादौनौन्द्रियाणि, तेषां वृत्तिर्वर्तनं परिणम इति यावत्, इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां मिद्धान्तः। अविकल्पिका नामजात्यादिकल्पनारहिता शाक्यमताध्यक्षवड्याख्येयेति । ईश्वरकृष्णस्तु “प्रतिनियताध्यवसायः श्रोत्रादिसमुत्थोऽध्यक्षम्" इति प्राह ॥ अनुमानस्य विदं लक 10 एम् । पूर्ववच्छेषवत्मामान्यतोदृष्टं चेति त्रिविधमनुमानमिति । तत्र नद्युबतिदर्शनादुपरिदृष्टो देव इत्यनुमीयते यत्तत्पूर्ववत् । तथा समुद्रोदकबिन्दुप्राशनाच्छेषं जखं चारमनुमानेन ज्ञायते । तथा स्थाल्यां सिक्थैकचन्पनाच्छेषमन्नं पक्कमपक्कं वा ज्ञायते तत्शेषवत् । यत्मामान्यतोदृष्टं तलिङ्गलिङ्गिपूर्वकम् । यथा 15 त्रिदण्डदर्शनादृष्टोऽपि लिङ्गो परिवाजकोऽस्तौत्यवगम्यते । इति त्रिविधम् । अथवा तलिङ्गलिङ्गिपूर्वकमित्येवानुमानलक्षणं सांख्यैः समाख्यायते ॥ शाब्दं वाप्तश्रुतिवचनम् । प्राप्ता रागद्देषादिरहिता ब्रह्ममनत्कुमारादयः । श्रुतिर्वदः । तेषां वचनं शाब्दम् ॥ अत्रानुक्रमपि किंचिदुच्यते । चिच्छक्तिर्विषयपरिच्छेदशून्या 20 नार्थं जानाति। बुद्धिश्च जडा न चेतयते । संविधानात्तयो रन्ययाप्रतिभासनम् । प्रात्यात्मसंयोगात्सृष्टिरुपजायते । प्रकृतिविकारस्वरूपं कर्म। तथा चैगुष्यरूपं सामान्यम् । प्रमाण
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy