SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (३) निर्विकल्पकस्यैव प्रमाणत्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य च प्रामाण्यमपाक गृहीतस्वपरव्यवसायिविशेषणज्ञानरूपप्रमाणाद्भवति ॥अतस्तदेवादी निरूप्यते। तत्प्रमाणं द्विविधम्, प्रत्यक्ष परोक्षञ्चेति। तत्रादिम द्विविधम् , सांव्यवहारिकपारमार्थिकभेदात्। उदीचीनञ्च स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदात् पञ्चधेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकैरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेति. कपिलोक्तस्वादेतत्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात पश्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टः वेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि सत्त्वात्, तथा चाभ्यधिष्महि“प्रत्यक्ष मानमेकन्तु, चार्वाकैरभिधीयते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥१॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥२॥ त्रितयन्तूपमानेना-न्वितं मानं चतुर्विधम्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥३॥
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy