SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १० न्यायतीर्थप्रकरणम् । सङ्गात्, ज्ञानस्य साकारत्वापत्तेश्च । अर्थेन च र्मूर्तेनामूर्त्तस्य ज्ञानस्य कीeat साशीत्यर्थविशेषग्रहणपरिणाम एव सोपेयेति । अथ सांव्यवहारिकप्रत्यक्षप्रकार भूतावग्रहादिचतुष्के अवग्रहस्तावत् इन्द्रियार्थयोगे सत्तामात्रालोचनानन्तरमवान्तरजातिविशिष्टार्थग्रहणं द्रष्टव्यः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापन्नो धारणा । संशयपूर्वकत्वात् ईहायाः संशयाद्भेदः । दर्शनादीनां कथञ्चनाभेदेपि परिणामविशेषात् व्यपदेशभेदः । क्रमेणाप्युत्पादुकानाममीषां कचित् क्रमानुपलक्षणमाशुत्पादात उत्पलपत्रशतव्यतिभेदक्रमवदिति ॥ इति श्रीन्यायतीर्थप्रकरणे प्रत्यक्षस्वरूपनिरूपणात्मको द्वितीयः सोपानः ॥ २॥
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy