SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्रथमः सोपानः । पूर्वापरपरिणाम साधारणं द्रव्यमूर्ध्वता सामान्यम्, कटककङ्कणाद्यनुगामिकाञ्चनवत् । विशेषोपि द्विरूपः गुणः पर्यायश्च । गुणः सहभाधर्म:, यथात्मनि विज्ञानव्यक्तिशक्त्यादिः । पर्यायस्तु क्रमभावी यथा तत्रैव सुखदुःखादिरिति । सर्वप्रमाणानां फलमज्ञाननिवृत्तिः । पारम्पर्येण तु वक्ष्यमाणलक्षणस्य केवलज्ञानरूपप्रमाणस्योपेक्षा सर्वत्र माध्यस्थ्यं फलम् । शेषप्रमाणानां पुनः परम्परं हानोपादानोपेक्षाधीः । तयोश्च प्रमाणफलयोः कथञ्चिद्भेदः कथञ्चिदभेदश्च ज्ञेयः । अन्यथा प्रमाणफलत्वानुपपत्तेः । नच प्रमाणाद् भिन्नेनोपादानबुद्ध्यादिना व्यवहितफलेनानेकान्त इति वाच्यम्, उपादानबुद्ध्यादेरेकप्रमातृतादात्म्येन प्रमाणात् कथञ्चनाभेदस्यापि सिद्धेः । प्रमाणत्वेन परिणेमुषएव आत्मनः फलरूपेण परिणामप्रतीतेः । यः प्रमिमीते सएवोपादत्ते जहात्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभूते, इतरथा इमे प्रमाणफले सौवे एते पुनः परकीये इत्येवं स्वपरयोः प्रमाणफलव्यवस्थाविप्लवापत्तेरिति नोपादानबुद्ध्यादौ व्यवहितेपि फले प्रमाणतोऽभेदस्यापि सिद्धेस्तेन प्रकृतहेतोर्व्यभिचारकलङ्कः । नाप्यज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन व्यभि चारः, तस्यापि ततः कथञ्चन भेदोपपत्तेः । साध्यसाधनरूपेण प्रमाणफलयोर्व्यवस्थानात् । किञ्च प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदो द्रष्टव्यः, कर्तुः क्रियायाश्च साध्यसाधकरूपेणोपलम्भात् । कर्त्ता हि साधकः स्वतत्रत्वात् । क्रिया च साध्या कर्त्तृनिर्वर्त्त्यत्वात् । नच क्रिया क्रियावतः सकाशादत्यन्तं भिन्नैवाभिन्नैव वा प्रतिनियतक्रियाक्रियावंद्भावभङ्गप्रसङ्गादिति । इति श्रीन्यायतीर्थप्रकरणे प्रमाणसामान्यस्वरूपोपवर्णनात्मकः प्रथमः सोपानः ॥ १ ॥
SR No.022455
Book TitleNyaya Tirth Prakaranam
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNirnaysagar Press
Publication Year1913
Total Pages96
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy