SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ -अहरा पूज्यपाद-शान्तमूर्तिश्रीवृद्धिचन्द्रगुरुभ्यो नमः । जैनतत्त्वज्ञानम् । यच्चैतन्यमहोग्रतः प्रतिहताः सर्वेऽपि तेजस्विनो ___ यच्छक्तेः पुरतः समस्तभुवनस्थामाऽप्यकिश्चित्करम् । विश्वैश्वर्यसुखाकरोऽपि च यदानन्दोदधौ बिन्दुवद् यश्चिन्ता-श्रुतिगोचरोऽपि नतरां प्रत्यक्षगम्यः पुनः॥१॥ तस्मै जगद्विचित्राय जगदीशाय शम्भवे । ब्रह्मणे परमेशाय सद्भक्त्या विदधे नमः ॥२॥ (युग्मम् ) अयं तावदारम्भः सङ्केपेण परिदर्शयितुं जैनदर्शनतत्त्वम् । दर्शनानि च षटू । यदाहुः श्रीहरिभद्रसूरयः षड्दर्शनसमुञ्चये "बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो!” ॥ अस्य च जैनदर्शनस्य प्रकाशयिता परमात्मा रागद्वेषाद्यान्तररिपुजेतृत्वादन्वर्थक"जिन"नामधेयः । जिनोऽर्हन् स्याद्वादी तीर्थकर इति चानन्तरम् । अत एव तत्प्रकाशितं दर्शनमपि जैनदर्शनमहत्वचनं जैनशासनं स्याद्वाददृष्टिरनेकान्तवाद इत्याद्यभिधानैर्व्यपदिश्यते। अत्र दर्शने नव तत्त्वानि-पदार्थाः परिकीर्तिताः सन्ति । तानि
SR No.022453
Book TitleJain Tattvagyanam
Original Sutra AuthorN/A
AuthorVijaydharmsuri
PublisherPremchand Ratnaji
Publication Year
Total Pages22
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy