SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तृतीयसमुद्देशः। तदुदाहरणं परं केवलमभिधीयमानं साध्यमिणि साध्यविशिष्टेधर्मिणि साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तधर्मिणि साध्यव्याप्तसाधनोपदर्शनेऽपि साध्यधर्मिणि तन्निर्णयस्य कर्तुमशक्यत्वादिति शेषः । अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते । अपरः प्राह-उपनयनिगमनयोरप्युमानाङ्गत्वमेव, तदप्रयोग निरवकरसाध्यसंवित्तेरयोगादिति । तनिषेधार्थमाह न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्य __ योर्वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याङ्गे न भवतः ! साध्यधर्मिण हेतुसाध्ययोर्वचनादेवत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः । किञ्चाभिधायापि दृष्टान्तादिक समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौ तस्यैवोपयोगानोदाहरणादिकमेतदेवाह-- ___ समर्थन वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ प्रथमो वाशब्द एवकारार्थे । द्वितीयस्तु पक्षान्तरसूचने । शेषं सुगमम् । ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात्कथं पक्षहेतुप्रयोगमात्रेण तेषां साध्यविप्रतिपतिरिति तत्राह बालव्युत्पत्त्यर्थ तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगादिति ॥ ४६॥ बालानां अल्पप्रज्ञानां व्युत्पत्त्यर्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy