SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३८. प्रमेयरत्नमाला। नचासिद्ध्वदिष्टं प्रतिवादिनः ॥ २३ ॥ अयमर्थः-न हि सर्व सर्वापेक्षया विशेषणमपि तु किञ्चित्कमप्युद्दिश्य भवतीति । असिद्धवदिति व्यतिरेकमुखेनोदाहरणम् । यथा असिद्धं प्रति. वाद्यपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ इच्छायाः खल्लु विषयीकृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति । तच साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह___ साध्यं धर्मः कचित्तद्विशिष्टो वा धर्मीति ॥ २५ ॥ सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमर्थों लभ्यते-व्याप्तिकालापेक्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः । अस्यैव धर्मिणो नामान्तरमाह पक्ष इति यावत् ॥ २६ ॥ ननु धर्मर्भिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैर्निरूपितत्वाद्धर्मिणस्तद्वचने कथं न राद्धान्तविरोध इति । नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पक्षत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्यानिराकृतत्वात्सिद्धान्ताविरोधात् । अत्राह सौगतः भवतु नाम धर्मी पक्षंव्यपदेशभाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः ! सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिन्यायेन बहिःसदसत्वमपेक्षत इत्य. भिधानादिति तन्निरासार्थमाह-- प्रसिद्धो धर्मीति ।। २७ ॥ अयमर्थः-नेयं विकल्पबुद्धिर्बहिरन्तर्वाऽनासादितालम्बनभावा धर्मिणं व्यवस्थापयति । तदवास्तवत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेस्तद्बद्धेः पारंपर्येणापि वस्तुव्यवस्थानिबन्धनत्त्वायोगात् । ततो विकल्पेना
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy