SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ३३: तृतीयसमुद्देशः। प्रत्यक्षतरभेदभिन्नममलं मानं द्विधैवोदितम् । देवैर्दीतगुणैर्विचार्य विधिवत्संख्याततेः संग्रहात् ॥ मानानामिति तदिगप्यभिहितं श्रीरत्ननन्याह्वयै-। स्तद्वयाख्यानमदो विशुद्धधिषणैर्बोद्धव्यमव्याहतम् ॥ १ ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभि पितं मया ॥ २॥ इति परीक्षामुखस्य लघुवृत्तौ द्वितीयः समुद्देशः ॥ २ ॥ अथेदानीमुद्दिष्टे प्रत्यक्षतरभेदेन प्रमाणद्वित्त्वे प्रथमभेदं व्याख्याय, इतरद्व्याचष्टे परोक्षमितरदिति ॥ १॥ उक्तप्रतिपक्षमितरच्छब्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते, तच्च परोक्षमिति । तस्य च सामग्रीस्वरूपे निरूपयन्नाहप्रत्यक्षादिनिमित्तं स्मृतिपत्यभिज्ञानतर्कानुमानागमभेदमिति ॥२॥ प्रत्यक्षादिनिमित्तमित्यत्रादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरूपयिष्यते । प्रत्यक्षादिनिमित्तं यस्य इति विग्रहः । स्मृत्यादिषु द्वंद्वः । ते मेदा यस्य इति विग्रहः । तत्र स्मृति क्रमप्राप्तां दर्शयन्नाह संस्कारोदाधनिबन्धना तदित्याकारा स्मृतिरिति ॥ ३ ॥ संस्कारस्योद्बोधः प्राकश्यं स निबन्धनं यस्याः सा तथोक्ता । तदित्याकारा तदित्युल्लेखिनी, एवम्भूता स्मृतिर्भवतीति शेषः । उदाहरणमाह . स देवदत्ता ययेति ॥४॥ प्रत्यमिज्ञानं प्राप्तकालमाह-- . . .
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy