SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २१ द्वितीय समुद्देशः। पस्यातजन्यस्याऽतदाकारधारिणोऽपि तत्प्रकाशकत्वं, तथा ज्ञानस्यापीत्यर्थः । ननु यद्यर्थादजातस्यार्थरूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियतदिग्दशकालवर्तिपदार्थप्रकाशप्रतिनियमे हेतोरभावात्सर्व विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति ॥ ९ ॥ स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषामेव सदवस्था उपशमः तावेव लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पर्यम् , कल्पयित्त्वाऽपि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताद्रूप्यस्य समानार्थस्तदुत्पत्तेरिन्द्रियादिभिस्तव्यस्यापि समानार्थसमनन्तरप्रत्ययैस्तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद्योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण-" अर्थेनघटयत्येनां नहि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतौ प्रमाणं मेयरूपतेति" तन्निरस्तम् । समानार्थाकारनानाज्ञानेषु मेयरूपतायाः सद्भावात् । न च परेषां सारूप्यं नामास्ति वस्तुभूतामिति योग्यतयैवार्थप्रतिनियम इति स्थितम् । इदानीं कारणत्वात्परिच्छेद्योऽर्थ इति मतं निराकरोति कारणस्य च परिच्छेद्यत्त्वे करणादिना व्यभिचार इति ॥ १० ॥ करणादिकारणं परिच्छेद्यमिति तेन व्यभिचारः । न ब्रूमः कारणत्त्वात्परिच्छेद्यत्वमपितु परिच्छेद्यत्त्वात्कारणत्वमिति चेन्न । तथापि केशोंडुकादिना व्यभिचारात् । इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy