SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रमेयरलमाला भूतावान्तरविशेषनिश्चयाभावात् ॥ अथोक्तप्रकार एवापूर्वार्थः किमन्योऽप्यस्तीत्याह दृष्टोऽपि समारोपात्तागिति ॥५॥ दृष्टोऽपि गृहीतोऽपि न केवलमनिश्चित एवेत्यपिशब्दार्थः । तादृगपूर्वार्थों मवति । समारोपादिति हेतुः । एतदुक्तं भवति-गृहीतमपि ध्यामालिताकारतया यनिर्णेतुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते प्रवृत्तसमारोपाव्यवच्छेदात् ॥ ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्वव्यवसायं तु न विन इत्यत्राह स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय इति ॥६॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वोन्मुखतया स्वानुभवतया प्रतिमासनं स्वस्य व्यवसायः ॥ अत्र दृष्टान्तमाह . अर्थस्येव तदुन्मुखतयेति ॥ ७॥ तच्छब्देनार्थोऽमिधीयते । यथाऽर्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायो भवति ॥ अत्रोल्लेखमाह ___ . घटमहमात्मना वेग्रीति ॥ ८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानम् । आत्मानं फलं वेति केचित् । कर्तृकर्मणोरेव प्रतीतिरित्यपरे । कर्तृकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतीतिबाधितामति दर्शयन्नाह कर्मवत्कर्तृकरणक्रियामतीतेरिति ॥ ९॥ ज्ञानविषयभूतं वस्तु कर्माभिधीयते । तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तद्वत् । कर्ता आत्मा । करणं प्रमाणम् । क्रिया प्रमितिः । कर्ता च करणं च क्रिया च तासां प्रतीतिः तस्या इति हेतो का, प्रागुक्तानुभवो
SR No.022451
Book TitlePramey Ratnamala
Original Sutra AuthorN/A
AuthorAnantvirya Shrimad
PublisherJain Sahitya Prasarak Karyalay
Publication Year1927
Total Pages92
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy