SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ निरूपणम्] टीकात्रयोपेता [वा. टी.] आक्षिपति-ज्ञानानामिति । तथाचाहन सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वशब्देन जन्यते ॥ इति । तन्निराकरोति-सर्व इति । विकल्पाः सविकल्पज्ञानानि । कुतश्चिद्यावृत्ता या जातिस्तद्वन्तीत्यर्थः । गुणत्वेन सिद्धसाधनतापरिहाराय ज्ञानेति । तत्र ज्ञानत्वादीनामनुवृत्तत्ववादिकल्पकत्वमेव व्यावृत्तं वाच्यम् । तद्यतो व्यावृत्तं तनिर्विकल्पकमित्यर्थः । पटत्वादिना दृष्टान्तलाभः । तथा चाहुः अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ इति । (लैङ्गिकी बुद्धिः, अन्वयव्यतिरेकनिरूपणञ्च ) उत्तरा लैङ्गिकी । लिङ्गं पुनः साध्याव्यभिचारित्वे सति पक्षधर्मतांवत् । तद्वेधा भिद्यते-अन्वयव्यतिरेकभेदात् । यस्य साध्येन साहचर्यनियमस्तदन्वयि । तविधा-सति विपक्षे असति च । पूर्वमन्वयव्यतिरेकि। तद्यथा-निनदोऽनित्यः, कृतकत्वात् , यदेवं तदेवम् , यथा घंटः, तथा चेदं तस्मात्तथा। यत्पुनरनित्यं न भवति तत्पुनः कृतकमपि न भवति, यथाकाशम् , न चेदं न तथा, तस्मान्न च न तथा । उत्तरं केवलान्वयि । यथा स्थितिस्थापकः प्रत्यक्षः, प्रमेयत्वात्, यदेवं तदेवं, यथा पृथिवी, तथा च प्रकृतं, तस्मात्तथा। असति सपक्षे यस्य साध्याभावेनाभावनियमस्तद्व्यतिरेकि । सर्व कार्य सर्ववित्कतकम्, कार्यत्वात् न यदेवं न तदेवम् , यथा परमाणुः, न चेदं न तथा, तस्मान्न तथेति । ' [ ब. टी.] उत्तरा परोक्षा । लिङ्गमिति । व्याप्यत्वासिद्धेऽतिव्याप्तिवारणाय प्रकृतसाध्याव्यभिचारित्वमुक्तम् । आश्रयासिद्ध स्वरूपासिद्धे चातिव्याप्तिनिरासाय पक्षधर्मतावदित्युक्तम् । साध्येनेति । केवलव्यतिरेकिण्यतिव्याप्तिभङ्गाय साध्येनेति । व्यभिचारिण्यतिव्याप्तिभङ्गाय नियमग्रहणम् । असति सपक्ष इति । अन्वयव्यतिरेकिण्यतिव्याप्तिभङ्गाय असति सपक्ष इत्युक्तम् । विरुद्धव्यतिरेकिण्यतिव्याप्तिवारणाय नियमपदम्। सर्वमिति। आकाशादीनां पक्षत्वे वाधवारणाय कार्यमिति । अन्वये दृष्टान्ताभावं बोधयितुं सर्वकार्यस्य पक्षत्वसूचनाय सर्वमिति। किञ्चिज्ज्ञानबाधवारणायोद्देश्यसिद्धये च सर्वविदिति । कर्तृत्वेन तत्सिद्धये च कर्तृकेति। १ पक्षधर्म इति क, ख, घ. २ रथ इति क, ग, घ. ३ पुनरिति नास्ति क. ४ न तथेदं तस्मान्न भवतीति क. ५ साध्याभावेऽभावेति क; साध्याभावे साधनाभाव इति घ. ६ यथा सर्वमितिक. ७कादाचित्कत्वादिति मु. ८न चेदं तथा तस्मात्तथेति क. ९ वारणायेति च. १०, ११, १२ वारणायेति च. १३ उक्तमिति नास्ति च. १४ ग्रहणमिति च. १५अवयव इति छ. १६ किञ्चिज्ज्ञेनेति छ. १७ कर्मिति छ.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy