SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४५ निरूपणम्] टीकापयोपेता साधितेऽनित्यत्वे, एवं कल्पने कल्प्यतेऽनेनेति कल्पनमनुमानम् , तस्मिन् क्रियमाणे नातिप्रसङ्ग इत्यन्वयः । तदाह-पार्थिवेति । सिद्धसाधनतापरिहाराय अग्निसंयोगेति । आप्ययणुकेऽतिव्याप्तिपरिहाराय नित्येति । आप्याणौ व्यभिचारपरिहाराय अनित्येति । घटेऽतिव्याप्तिपरिहाराय नित्येति । आत्मनि व्यभिचारवारणाय भूतेति । ततिप्रसङ्ग एव, आप्यानामपि तथा साधयितुं शक्यत्वादत आह-हुतवहेति । अयमाशयः-अनलसमाकुलपृथिव्यवयवपूर्वरूपपरावृत्त्या रूपान्तरदर्शनात्कार्यवैलक्षण्येन कारणवैलक्षण्यानुमानस्य रक्तपटदर्शनेन रक्ततन्तुवत्सप्रसरत्वात्परम्परया परमाणूनामपि तथा साधनान्नातिप्रसङ्ग इति । नन्वन्त्यावयविन्येवाग्निसंयोगात् पूर्वरूपनाशे संयोगान्तरेण पुनरन्योत्पत्तौ नेयं कल्पनेति चेन्न; तदा नष्टेऽवयविन्यवयवरूपे रूपान्तरदर्शनं न स्यात्, तच्चास्तीत्याह-खण्ड इति । (संख्यालक्षणम् तद्विभागश्च ) गुणत्वावान्तरजात्या न्यणुकपरिमाणासमवायिकारणसजातीया संख्या। सा द्वेधा-अयावद्व्यभावियावद्व्यभाविभेदेन ।। __[ब. टी.] गुणत्वावान्तरेति। घणुकपरिमाणस्यासमवायिकारणं परमाणुद्वित्वम् , तस्य गुणत्वावान्तरजातिपुरस्कारेण सजातीया संख्येत्यर्थः । सत्तया द्वित्वसजातीयरूपादावतिव्याप्तिभङ्गाय अवान्तरेति । गुणत्वेन द्वित्वसजातीयरूपादावतिव्याप्तिवारणाय गुणत्वेति । रूपद्वित्वान्यतरत्वादिना रूपादावतिव्याप्तिभङ्गाय जात्येति । जातिपदेन समवेतो धर्म इह गृहीतस्तेन न नित्येपदव्यर्थता । गुणत्वावान्तरजाती रूपत्वादिरत उक्तं म्यणुकेत्यादि । घटपरिमाणासमवायिकारणसजातीये परिमाणेऽतिव्याप्त्यभावाय यणुकेति । न्यणुकासमवायिकारणसंयोगसजातीयसंयोगेऽतिव्याप्तिभङ्गार्य परिमाणेदि । म्यणुकपरिमाणे निमित्तकारणज्ञानादिसजातीयेऽतिव्याप्तिवारणाय असमवायीति । सा द्वेधा-अयावद्रव्यभावियावद्रव्यभाविभेदादिति पाठः । यावद्रव्यभाव्ययावद्रव्यभाविभेदादिति पाठेऽपि अयावद्रव्यभाविन एव पूर्वनिर्देशो बोध्यः। अल्पस्वरत्वात्तु यावद्व्यभाविनः पूर्वः पाठः। [अ. टी.] सजातीया संख्येत्युक्ते ईश्वरज्ञानादिना निमित्तकारणेन सजातीयसंयोगादिना व्यभिचारस्स्यादतः असमवायिकारणग्रहणम् । संयोगाद्यसमवायिकारणसजातीयक्रियाविशेषादावतिव्याप्तिनिरासाय परिमाणपदम् । तूलादिपरिमाणविशेषासमवायिकारणप्रशिथिलावयवसंयोगादौ व्यभिचारवारणाय झणुकपदम् । तथापि गुणत्वसत्त्वाभ्यों व्यणुकपरिमाणासमवायिकारणसजातीयरूपादौ व्यभिचारवारणाय गुणत्वावान्तरजात्येत्युक्तम् । अनेकद्रव्यमाश्रयो यस्य तदनेकद्रव्यम् , तादृशमसमवायिकारणं यस्य तदनेकद्रव्यासमवायिकारणम् । १भेदादिति क, ख, ग, घ. २ वारणायेति च. ३ निरासायेति च. ४ द्वित्वादिति च. ५ नियमेति छ. ६ निरासायेति च. ७ अभावायेति च. ८ अपीति नास्ति च पुस्तके. ९ स्वरतरत्वादिति छ. १० तस्य व्यवच्छेदार्थमिति ज, ट. ११ निरासार्थमिति ज, ट. १२ वारणार्थमिति ज, ट. १३ सत्ताभ्यामिति ज, ट, १४ व्यभिचारस्स्यादत उक्तमिति ज, ट. १५ आश्रयभूतमिति ज, द.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy