SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रमाणमञ्जरी [द्रव्य(ईश्वरज्ञानादेस्सर्वाश्रयव्यापित्वे प्रमाणम् ) तज्ज्ञानमाश्रयव्यापि, नित्यगुणत्वात् परमाणुरूपवदिति तज्ज्ञानस्याश्रयव्यापित्वं सिद्धम् । अत एव तदिच्छाप्रयत्नावाश्रयव्यापिनी । उत्तरत्र प्रमाणम्-भोगः कचिदाश्रितः, गुणत्वात्, रूपवदिति। नै कार्याणि तद्वन्ति, कार्यत्वाद्धटवदिति । न श्रोत्रादि तद्वत्, कारणत्वाद्दण्डवत् । भोगो गुणः, अनित्यत्वे सत्यचाक्षुषप्रत्यक्षत्वाद्गन्धवदिति हेतुसिद्धिः। [ब. टी. ] तज्ज्ञानमिति । ईश्वरज्ञानमित्यर्थः । आश्रयनिष्ठत्वमात्रे साध्ये सिद्धसाधनमतो व्यापीति । समवायसम्बन्धेन घटाद्यव्यापित्वात् बाधवारणाय आश्रयेति। सर्वस्मिन् काले स्वसमवायीत्यर्थः । एतावता व्यापकस्य व्यापकत्वं सकलकार्योपादानावगाहकत्वमिति दूषणमपास्तम् । नित्येति । नित्यश्चासौ गुणश्चेति कर्मधारयः । संयोगादौ व्यभिचारवारणाय गुणत्वादिति । विशेषपदं नास्त्येवेति न व्यर्थता । अन्ये तु जीवाकाशेतरनित्यनिष्ठमाकाशप्रयोज्यविशेषगुणत्वादिति हेतुं वर्णयन्ति । पृथिवीपरमाणुरूपं न दृष्टान्तः, सर्वकाले स्वाश्रयव्यापकत्वाभावात् । यद्यपीश्वरज्ञानस्य नित्यत्वं पूर्वमेव सिद्धम् , तथापि सर्वकाले स्वाश्रयव्यापकत्वमिहोद्देश्यमिति कृत्वा तादृशसाध्यमुक्तम् । केचित्तु स्वाश्रयव्यापकत्वमात्रमत्र साध्यमित्याहुः । अत एव नित्यगुणत्वादेवें । उत्तरत्र अनीशात्मनि । कार्याणि शरीरतदवयवाः, अन्यत्र विवादाभावात् । कारणोद्भूतत्वादित्यर्थः। तेन स्वमते नात्मनि व्यभिचारः। मनो न तद्वत् , इन्द्रियत्वात् चक्षुर्वदित्युपरि बोध्यम् । पूर्वहेतोरसिद्धिं वारयितुं भोगस्य गुणत्वं साधयति-भोग इति । रसत्वादौ व्यभिचारं वारयितुं सत्यन्तम् । घटादौ व्यभिचारभङ्गाय त्वादन्तम् । अतीन्द्रिये गुणभिन्ने व्यभिचारभङ्गाय प्रत्यक्षत्वे सतीति देयम् । [अ. टी.] तस्य परिच्छिन्नस्यानन्तकार्योपादानावगाहकत्वं प्रदीपप्रभावन्न सम्भवतीति तत्राहतज्ज्ञानमिति । अनित्ये संयोगादौ व्यभिचारवारणाय नित्यपदम् । ईश्वरेच्छाप्रयत्नावप्याश्रयव्यापिनौ, नित्यगुणत्वात् जलपरमाणुरूपवदित्यपि प्रयोक्तव्यमित्याह-अतएवेति । अनीशात्मनि प्रमाणमाह-उत्तरत्रेति । भोगः पूर्वोक्तभोगः । शरीरधर्म इत्येके लोकायताः । इन्द्रियाश्रय इत्यन्ये । तदुभयं क्रमेण निरस्यति न कार्याणीति । करणान्तरस्सीकारेऽनवस्थानाच्छ्रोत्रादेरेव करणत्वेन नासिद्धो हेतुर्गुणत्वादिति पूर्व हेतोरसिद्धि परिहरतिभोग इति । चाक्षुषप्रत्यक्षगम्ये घटादौ व्यभिचारवारणीय अचाक्षुषपदम् । आत्मनि १ जलपरमाण्विति घ. २ प्रयत्नावपीति मु. ३ तत्र नेति ग. ४ श्रोत्रादीनि तद्वन्तीति क. ५ निष्ठमात्रे इति च. ६ सम्बन्धिन इति छ. ७ स्वसमवायिव्यापीति च. ८ तस्य व्यापकत्वमिति च. ९ एवेति नास्ति च पुस्तके. १० व्यभिचारं वारयितुमिति च. ११ प्रेति नास्ति ज, ट. पुस्तकयोः. १२ परमाणुवदिति झ. १३ करणत्वे चेति ज, करणत्वेन चेति ट. १४ हेतोराश्रयेति ट. १५ वारणार्थमिति ज, द.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy