SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रमाणमञ्जरी [ द्रव्य सिद्धसाधनताव्युदासार्थं नित्येत्युक्तम् । पृथिवीत्वं नित्यसमवेतमित्युक्ते यद्यपि नित्यपृथिवीसिद्धौ परमाणुसिद्धिस्स्यात्, तथापि न व्यणुकसिद्धिरिति तस्यै सिध्यर्थं वृत्तिपदम् । जातित्वादित्युक्ते मनस्त्वादौ व्यभिचारस्स्यादत उक्तम् - घटपटेति । घटजातित्वादित्युक्ते घटत्वे, एवं पटजातित्वादित्युक्ते पटत्वे व्यभिचारस्स्यादत उक्तम्- घटपटजातित्वादिति । सत्तावन्नित्ये नित्यसमवेते च पृथिवीत्वस्य वृत्तौ तदुभयं सिध्येत्, परमाणुव्यणुकतयैव सिध्यति । पृथिव्या निरतिशयाणुत्वेनैव निरवयवद्रव्यतयात्मवन्नित्यत्वं व्यणुकस्य च नित्यसमवेतत्वं, परमाणोश्च क्रियावत्वं स्वसमवेतद्रव्यारम्भकत्वात् । ततो यथोक्तव्यणुकपरमावोः सिद्धिः । १० [वा. टी. ] पृथिवीत्वमिति । तन्तुसमवेतपट वृत्तित्वेन सिद्धसाधनतानिवारणाय नित्येति । यणु सिध्यै समवेतेति । घटलपटत्वनिवृत्तये घटपटेति । असिद्धिनिवारणाय जातीति । दृष्टान्ते च नित्याकाशसमवेत शब्दवृत्तित्वेन साध्यसिद्धिः । पक्षे च तदनुपपत्त्याभिमतसाध्यसिद्धिरिति। शरीरादिसंज्ञा च पृथिवीत्वेन परापरभावानिरूपणान्न शरीरत्वादिर्जातिनिबन्धना, किन्तर्हि ? तत्तल्लक्षणोपाधिकेति मन्तव्यम् । ( शरीरसामान्यलक्षणम् ) उत्तरा त्रेधा-शरीरादिभेदेन । स्पर्शवदिन्द्रियसंयुक्तमेव भोगसाधनम् अन्त्यावयवि शरीरमिति सामान्यलक्षणम् । [ब. टी.] उत्तरेति। अनित्यसमवेतेत्यर्थः । स्पर्शवदिति । दण्डादावतिव्याप्तिवारणाय भोगेति । भोगः सुखदुःखान्यतरसाक्षात्कार इति । दुःखपदं व्यर्थमिति चेन्न; नारकीयशरीरेऽव्याप्तिवारकत्वात् । तस्य शरीरस्य केवलपापारब्धतया सुखानवच्छेदकत्वात् । न च दुःखसाक्षात्कारसाधनं दुःखसाधनमित्येवास्तु, इतरपदवैयर्थ्यमिति वाच्यम् । स्वार्गे शरीरे तस्याव्याप्तिवारकत्वात् तस्य केवलपुण्यारब्धतया दु:खानवच्छेदकत्वात् । ननु मरणस्य दुःखाविनाभूतत्वेन स्वर्गिशरीरमपि दुःखजनकं भवत्येवेति चेन्नः सुखजनके परिमाणभेदोद्भिन्नै शरीरे दुःखमजनयित्वैव नष्टे तस्य विशेषणस्याव्याप्तिवारकत्वात् । यत्तु मरणदशायामपि स्वर्गिणो न दुःखम्, १ ब्युदासायेति ज.. २ सिद्धिरिति नास्ति ट. ३ तत्सिध्यर्थमिति ज. ट. ४ आत्मत्वे मनस्त्वे ५ व्यभिचारस्स्यादित्यधिकं झ. ६ चेत्यधिकं च. पुस्तके. ७ अन्त्यावयवीति नास्ति क. ख. ८ नारकेति च. ९ सुखदुःखेति च. १० इतरवैधर्म्यमिति छ. ११ तस्य स्वर्गीयेति १२ सुखेति च. १३ पदमिदं नास्ति छ. पुस्तके. १४ जनकेनेति छ. १५ भेदानिति च. चेति ट. पुस्तकयोः. च.
SR No.022449
Book TitlePraman Manjari
Original Sutra AuthorN/A
AuthorPattambhiram Shastri
PublisherRajasthan Puratattava Mandir
Publication Year1953
Total Pages120
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy