SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [ षड्दर्शनस० ग्रहस्थानादिपरिग्रहः, एतैः कृत्वा दूषणं - परोपन्यस्तपक्षादेर्दूषणजालमुत्पाट्य निराकरणम् । अभिमतं च स्वपक्षस्थापनेन सन्मार्गप्रतिपत्तिनिमित्ततया छलजात्याद्युपन्यासैः परप्रयोगस्य दूषणोत्पादनम्, तथा चोक्तन 3 दुः शिक्षितकुतकोश- लेशवाचालिताननाः । ४२ शक्याः किमन्यथा जेतुं वितण्डाटोप पण्डिताः ॥ ( १७ ) गतानुगतिको लोकः, कुमार्गं तत्प्रतारितः । ર ३२ " मार्गादिति छलादीनि प्राह कारुणिको मुनिः ॥ (१८) इति । सङ्कटे प्रस्तावे च सति छलादिभिरपि स्वपक्षस्थापनमनुमतम्, परविजये हि धर्मध्वंसादिदोषसम्भवस्तस्माद्वरं छलादिभिरपि जयः । ' सा वितण्डा तु वा प्रतिपक्षविवर्जिता ' इति सा पुनर्वितण्डा या, किं ? विजिगीषुकथैव प्रतिपक्षविवर्जिता, वादिप्रयुक्तपक्षमति - रोधकः प्रतिवाद्युपन्यासः प्रतिपक्षस्तेन ' विवर्जिता ' रहितेति प्रतिपक्षसाधनाहीनो वितण्डावादः । वैतण्डिको हि स्वाभ्युपगतपक्षमस्थापयन् यत् किञ्चिद्वादेन परोक्तमेव दूषयतीत्यर्थः ॥ ३० ॥ ३१. ' न्यायमञ्जरी पृ. ११' इति सूचितं स्याद्वादमञ्जर्यां पृ. ६० प्रस्तावनासत्कम् । इमे पद्ये प्रमाणमीमांसायां (पृ. ९२ ) तर्करहस्यदोपि - कायामपि (पृ. ३२ / १ वर्त्तते । १. पमण्डिताः ॥ ध. । तर्करहस्यदापिकायामप्येवं पाठः, पृ. ३२/१ । स्याद्वादमञ्जर्यामप्येवं पाठः, पृ. ६९ ( पुना ) । ३२. मा गादि 'ति प्रमाणमीमांसायाम् । (पृ. ९२ ) एवं च स्याद्वाद - मञ्जर्यामपि पृ. ६९ । २ कारणिको जं. पु. । 6
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy