SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ર [क्यूदर्शनस० ऽऽत्मापि तथाचिच एक मुद्गलश्वासावभिधीयते, निराकारो बोधोऽर्थसहभाव्येकसामग्र्यधीनस्तत्रार्थे प्रमाणमिति । "सौत्रान्तिकमतं पुनरिदम् - रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, व पुनरात्मा, ते एव हि परलोकगामिनः, तथा च तत्सि - द्धान्तः - पञ्चेमानि भिक्षवः संज्ञामात्रं प्रतिज्ञामात्रं संवृतिमात्रं व्यवहारमात्रम्, कृतमानि पश्च ? अतीतोऽद्धा, अनागतोऽद्धा, सहेतुको विनाशः, आकाश, पुद्गल इति, अत्र पुद्गलशब्देन परपरिकल्पितो नित्यत्वव्यापकत्वादिधर्मक आत्मेति, बाह्योऽर्थो नित्यमप्रत्यक्ष एव, ज्ञानाकारान्यथानुप (प) त्या तु सन्नवगम्यते, साकारो बोधः प्रमाणम्, तथा क्षणिकाः सर्वसंस्काराः स्वलक्षणं परमार्थः, यदाहुस्तद्वादिनः - प्रतिक्षणं विशराखो रूपरसगन्धस्पर्शपरमाणबो ज्ञानं चेत्येव तत्त्वमिति, अन्यापोहः शब्दार्थः, तदुत्पत्तितदाकारताभ्यामर्थपरिच्छेदः, नैरात्म्यभावनातो ज्ञानसंतानच्छेदो मोक्ष इति । " “ योगाचारमतं त्विदम् - विज्ञानमात्रमिदं भुवनम् नास्ति बाह्योऽर्थ, ज्ञानाद्वैतस्यैव ताविकत्वात्, अनेके ज्ञानसंतानाः, साकारो बोधः प्रमाणम्, वासनापरिपाकतो नीलपीतादिप्रतिभासाः, आलय विज्ञानं हि सर्ववासनाधारभूतम्, आलयविज्ञानविशुद्धिरेवापवर्ग इति । " माध्यमिकदर्शने तु शून्यमिदं स्वप्नोपमः प्रमाणप्रमेययोः प्रविभागः, मुक्तिस्तु शून्यतादृष्टेः, तदर्थं शेषभावनेति केचित्तु माध्यमिकाः स्व ज्ञानमाहुः । तदुक्तम् - "अर्थो ं ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते,
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy