SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विद्याण्टीकाश्लो०२] मरीचिकुमारकपिलोलूकमाठरप्रभृतयः। ते पुनरमुनोपायेनाशीत्यधिकशतसंख्याविज्ञेयाः। जीवाजीवास्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपानव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ। तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरामनियतिस्वभावभेदाः पञ्च न्यसनीयाः, 5 ततश्चैवं विकल्पाः कर्तव्याः, तद्यथा-'अस्ति जीवः स्वतो नित्यः कालत' इत्येको विकल्पः । अस्य च विकल्पस्यायमर्थः-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते। कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । उक्तेनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो नवरं कालवादिन इति वक्तव्य ईश्वरवादिन इति वक्तव्यम् , तद्यथा10 'अस्ति जीवः स्वतो नित्य ईश्वरतः'। ईश्वरवादिनश्च सर्व जगदीश्वरकृतं मन्यन्ते । ...तृतीयो विकल्प आत्मवादिनाम् । आत्मवादिनो नाम पुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः। चतुर्थो विकल्पो नियतिवादिनाम् , ते ह्येवमाहुः'नियति'र्नाम तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा । तदेवं स्वत इति पदेन लब्धाः पश्च विकल्पाः, 15 एवं च परत इत्यनेनापि पञ्च लभ्यन्ते । परत इति परेभ्यो व्यावृत्तेन रूपे णात्मा विद्यते, यतः प्रसिद्धमेतत्सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया इस्वत्वादिपरिच्छेदः, एवमात्मनि स्तम्भादीन्समीक्ष्य तद्व्यतिरिक्तबुद्धिः प्रवर्तते, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति। एवं नित्यत्वापरित्यागेन दश विकल्पा लब्धाः, 20 एवमनित्यत्वपदेनापि, सर्वेऽपि मिलिता विंशतिः । एते च जीवपदार्थेन लब्धाः,
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy