SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [षड्दर्शनस० व्यासं विहाय संक्षेप,-रुचिसत्त्वानुकम्पया। टीका विधीयते स्पष्टा, षड्दर्शनसमुच्चये ॥४॥ इह हि श्रीजिनशासनप्रभावनाविर्भावकप्रभोदयभूरियशाचतुदेशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् श्रीहरिभद्रसरि षड्दर्शनप्रमाणपरिभाषास्वरूपजिज्ञासुशिष्यहितहेतवे प्रकरणमारिप्समानो 5 निर्विघ्नशास्त्रपरिसमाप्त्यर्थ स्वपरश्रेयोऽर्थं च समुचितेष्टदेवतानमस्कारपूर्वकमभिधेयमाह, तथाहि सदर्शनं जिनं नत्वा, वीरं स्यांद्वाददेशकम् । सर्वदर्शनवाच्योऽर्थः, संक्षेपेण निगद्यते ॥१॥ व्याख्या–अर्थों 'निगद्यतेऽभिधीयत इति सम्बन्धः। 10 अर्थशब्दोत्राभिधेयवाचको ग्राह्यः, "अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिष्वि"-त्यनेकार्थवचनाद्, 'मयेत्यनुक्तस्यापि गतार्थत्वाद, किंविशिष्टोऽर्थः १ 'सर्वदर्शनवाच्य' इति, सर्वाणि च तानि दर्शनानि बौद्ध-नैयायिक-सांख्य-जैन-वैशेषिक जैमनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु 'वाच्या'-कथनीयः। किं कृत्वा ? 'जिनं 1b नत्वा' । सामान्यमुकत्वा विशेषमाह-कं जिनं ? 'वीरें' वर्द्धमानस्वामिनम् , वीरमिति साभिप्रायम् , प्रमाणवक्तव्यस्य परपक्षोच्छे + विभवक जं.। विभावक पु. ध. । १अन्यत्र 'जैमिनी'ति श्रतेरप्यस्मिन्मन्थे सर्वत्र 'जैमनीति पाठः सुष्ट्वालोक्यते ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy