SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [ लघु प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यानित्यैकान्तवादः, आत्मनः श्रवणमनननिद (दि)ध्यासन साक्षात्कारो मोक्षमार्गः, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामात्यन्तोच्छेदः मोक्षः । जैमनीयं भट्टदर्शनम् । तत्र सर्वज्ञो देवता नास्ति किन्तु नित्यवेदवाक्येभ्य एव तत्त्वनिश्चयः, प्रत्यक्षमनुमानमुपमानमागमोऽर्थोपत्तिरभावश्चेति षट् प्रमाणानि, नित्याद्य (द्वै) नेकान्तवादः, वेदविहितानुष्ठानं मोक्षमार्गः, नित्यनिरतिशयसुखाविर्भावश्व मोक्षः । सायदर्शनं मरीचिदर्शनम् । तत्र केषाञ्चित् कपिल एव (देवता), पञ्चविंशतिस्तत्त्वानि, तथा हि- आत्मा प्रकृतिर्महानहङ्कारः, गन्धरसरूपस्पर्श- शब्दाख्यानि पञ्च तन्मात्राणि ९, पृथिव्यप्तेजोव वाकाशाख्यानि पञ्च भूतानि १४, एकादश चेन्द्रियाणि तत्र प्राणरसनचक्षुस्त्वक श्रोत्रमनांसि षड् बुद्धीन्द्रियाणि २०, पायूपस्थवचः पाणिपादाख्यानि पञ्च कर्मेन्द्रियाणि २५, प्रत्यक्षमनुमानमागमश्चेति प्रमाणत्रयम्, नित्यैकान्तवादः, पञ्चविंशतितत्त्वज्ञानं मोक्षमार्गः, प्रकृतिपुरुषविवेकदर्शनाद् निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्षः । १५६ / न नास्तिकाः कापील( पालि )का: । तेषां दर्शने नास्ति सर्वज्ञः, न जीवः, 'धर्माधर्मौ न च तत्फलम्, न परलोकः, न मोक्षः, तथा च तन्मतम् - एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ पृथिव्यप्तेजोवयव चत्वार्येव व्यादिभूतसङ्घात एव शरीरम्, मद्याङ्गेषु भूतानि प्रत्यक्षमेवैकं प्रमाणम्, पृथिमदशक्तिरिव चैतन्यं तत्र जायते ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy