SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५३ विद्या• टोका श्लो० ८७ ] उपसंहरन्नाहलोकायतमतेऽप्येवं, संक्षेपोऽयं निवेदितः। अभिधेयतात्पर्यार्थः, पर्यालोच्यः सुबुद्धिभिः ॥७॥ व्याख्या-एवममुना प्रकारेण लोकायतमतेऽपि अयं संक्षेपो निवेदितः, 'अपि' समुच्चये, न केवलमपरमतेषु संक्षेप उक्तो लोकायतमतेऽपि । अथ सर्वदर्शनसम्मतसंग्रहे परस्पर कल्पितानल्पविकल्पजल्परूपे प्ररूपिते किंकर्तव्यमूढानां प्राणिनां यत्कर्त्तव्योपदेशमाह-'अभिधेये 'ति, सुबुद्धिभिः पंडितैरभिधेयतात्पर्यार्थः पर्यालोच्यः, 'अभिधेयं' कथनीय मुक्त्यतया प्रतिपाधं यहनस्वरूपं तस्य 'तात्पर्यार्थः' साराओं विचारणीयः 'सुबुद्धिमिरिति शुद्धा पक्षपातरहिता बुद्धिर्येषामिति, न तु कदाग्रहग्रहिलैः, यदुक्तम्-- " आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्ति-र्यत्र तत्र मतिरेति निवेशम् ॥” (७०)इतिा दर्शनानां पर्यन्तैकसारूप्येऽपि पृथक्पृथगुपदेष्टव्याद्विमतिसम्भवे विमूढस्य प्राणिनः सर्वस्य पृथक्तया दुर्लभं स्वर्गापवर्गसाधकत्वमतो विमर्शनीयस्तात्त्विकोऽर्थः, यथा च विचारितं चिरन्तनैः-- " श्रोतव्यः सौगतो धर्मः, कर्तव्यः पुनरार्हतः । वैदिको व्यवहर्त्तव्यो, ध्यातव्यः परमः शिवः ॥” (७१)
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy