SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ [ षड्दर्शनस० मुखदुःखादि वेदितव्यमवश्यमेवेति चेदाह-समुदयमात्रमिदं कलेवरम्, इदं 'कलेवरं ' शरीरं समुदयमात्रं 'समुदयो' मेलो वक्ष्यमाणचतुर्भूतानां संयोगस्तन्मात्र, 'मात्र' शब्दोऽवधारणे, भूतचतुष्टयसम्बन्ध एव कायो न च पूर्वभवादिसंबद्धशुभाशुभकर्मविपाकवेचमुखदुःखानुबन्धसव्यपेक्ष इत्यर्थः, संयोगाश्च तरशिखरावलीलीनशकुनिगणवत् क्षणविनश्वरास्तस्मात् परलोकानपेक्षतया यथेच्छं पिब खाद चेति वृत्तार्थः॥ ८२॥ चैतन्यमाहकिञ्च पृथ्वी जलं तेजो, वायु तचतुष्टयम् । चैतन्यभूमिरेतेषां, मानं त्वक्षजमेव हि ॥८३॥ व्याख्या-किश्च इत्युपदर्शने, पृथ्वी' भूमिः, जलमापः, तेजो वहिः, वायुः पवनः, इति भूतचतुष्टयं तेषां-चार्वाकाणां चैतन्यभूमिः-चेतनोत्पत्तिकारणम् , चत्वार्यपि भूतानि सम्भूय सपिण्डं चैतन्यं जनयन्तीत्यर्थः। तु पुनर्मान प्रमाणं हि निश्चितमक्षजमेव-प्रत्यक्षमेवैकं प्रमाणमित्यर्थः ॥ ८३ ॥ ननु भूतचतुष्टयसंयोगजदेहे चैतन्योत्पत्तिः कथं प्रतीयताम् ? इत्याशंक्याहपृथ्व्यादिभूतसंहत्या, तथा देहादिसम्भवः । मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वत् स्थिताऽऽत्मता ॥४॥ 1. 'थ्वी जलं तेजो घायुः-भूमि-जल-वह्नि-पवनाः इति भूत ध.।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy