SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ विद्या० टीका श्लो० ७९ ] १४३ दर्शनानां च षट्संख्या जगति प्रसिद्धा, सा संख्या कथं फलवती ? इत्याह षष्ठदर्शनसंख्या तु, पूर्यते तन्मते किल । लोकायत मतक्षेपात् कथ्यते तेन तन्मतम् ॥७९॥ " --- व्याख्या - ये नैयायिकवैशेषिकयो रेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवचक्षते तन्मते षष्ठदर्शनसंख्या लोकाचतमतक्षेपात् पूर्यते, 'तुः' पुनरर्थे, किलेति परमाप्ताम्नायते, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते, तत्स्वरूपमुच्यत इति ॥७९॥ वादिमतमेव विभणिषुरेवमाह (पृ. ११५ ) “ अनधिगतार्थाधिगन्तृ प्रमाणं, पूर्वं पूर्वं प्रमाणमुत्तरं तु फलं, सामान्यविशेषात्मकं वस्तु प्रमाणगोचरम्, नित्यपरोक्षं ज्ञानं हि भाट्टप्रभाकरमतयोरर्थप्राकट्याख्यसंवेदनाख्य फलानुमेयम्, वेदोऽपौरुषेयः, वेदोक्ता हिंसा धर्माय, 'शब्दो नित्यः, सर्वज्ञो नास्ति, अविद्याऽपरनाम मायावशात्प्रतिभासमानः सर्वः प्रपञ्चोऽपरमार्थिकः, परब्रह्मैव परमार्थसत् । " (पृ. १२१।१ ) तथा च - " प्रपञ्चमिथ्या कठवल्लिका च ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां तत्सम्प्रदायस्तु कृशोऽत्र लोके ॥ ८३ ॥ " इति राजशे० प० द० स० पृ० ८ । 9
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy