SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११८ षड्दर्शनस.. श्वेताम्बरा दिगम्बराश्च, तत्र श्वेताम्बराणां रजोहरणमुखवस्त्रिका लोचादि लिङ्ग, चोलपट्टकल्पादिको वेषः, पञ्च समितयस्तिस्रश्च गुप्तयस्तेषामाचारः,-"ईया-भाषेषणादाननिक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीरितस्रो गुप्तास्त्रियोगनिप्रहात् ॥” इति वचनात्, अहिंसासत्यारतेयब्रह्माकिंचन्यवान् क्रोधादिविजयी दान्तेन्द्रियो निम्रन्थो गुरुः, माधुकर्या वृत्त्या 'नवकोटीविशुद्धस्तेषां नित्यमाहारः, संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम्, वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बराः पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च, चतुर्धा-काष्ठासङ्घमूलसङ्घमाथुरसङ्घगोप्यसङ्घभेदात् , काष्ठासङ्घ चमरीवालैः पिच्छिका, मूलसचे मायुरपिच्छेः पिच्छिका, माथुरसङ्घ मूलतोऽपि पिच्छिका नाहता, गोऱ्या मायूरपिच्छिका, आद्यास्त्रयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धि भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं सद्वतस्थस्यापि सचीवरस्य मुक्तिं च न मन्वते, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्तिं केवलिनां मुक्तं च मन्यन्ते, गोप्या यापनीया इत्यप्युच्यन्ते, सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराया मलाश्च चतुर्दश वर्जनीयाः, शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः।" इति बृहद्वृत्तिः, पृ. ४५ । एतद्वृत्तिप्रणेतृणां श्रीमदाचार्यगुणरत्नसूरीश्वराणां सत्तासमयो वैक्रमिक १४६६ प्रतीयते, एतस्मिन्काले स्थानकवासिढूंढकाल्यतृतीयो भेदोऽनुत्पन्नत्वेन नोल्लिखितः, समधिकशतवर्षानन्तरमस्योत्पत्तिर्लिखारीलंकानामकेन स्वयमवतिनाऽपि जाता, एते पुनर्मुखबन्धाः १ हस्तेन केशलुञ्चनं लोचः । २ करणकारापणानुमोदनविषयों हननपचनक्रयणरहित आहारः स नवकोटीविशुद्धः ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy