SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ न्यायदीपिका। रझानं प्रत्यक्षमनुमानं च" इति। तत्र न तावत्प्रत्यक्षस्याविसंवादित्वं, तस्य निर्विकल्पकत्वेन स्वविषयानिश्चायकस्य समारोपविरोधित्वाभाचात् । नाप्यनुमानस्य, तन्मतानुसारण तस्याप्यपरमार्थभूतसामान्यगोचरत्वादिति । "अनधिगततथाभूतार्थनिश्चायकं प्रमाणं" इति भाट्टाः । तदप्यव्याप्तं, तैरेव प्रमाणत्वेनाभिमतेषु धारावाहिकज्ञानेष्वनधिगततथाभूतार्थनिश्चायकत्वाभावात् । उत्तरोत्तरक्षणविशेषविशिष्टार्थावभासकत्वेन तेषामनधिगतार्थनिश्चायकत्वं नाशंकनीय, क्षणानामतिसूक्ष्माणामालक्षयितुमशक्यत्वात् । "अनुभूतिः प्रमाणं" इति प्राभाकराः । तदप्यसंगतं, अनुभूतिशब्दस्य भावसाधनत्वे करणलक्षणप्रमाणाव्याप्तेः, करणसाधनत्वे तु भावलक्षणप्रमाणाव्याप्तेः, करणभावयोरुभयोरपि तन्मते प्रामाण्याभ्युपगमात् । तदुक्तं शालिकानाथेन “यदा भावसाधनं तदा संविदेव प्रमाणं करणसाधनत्वे त्वात्मनः सन्निकर्षः” इति । __ "प्रमाकरणं प्रमाणं” इति नैयायिकाः। तदपि प्रमादकृतं लक्षणमीश्वराख्ये तदंगीकृत एव प्रमाणे अव्याप्तेः । अधिकरणं हि महेश्वरः प्रमायाः न तु करणं । न चायमनुक्तोपालंभ: "तन्मे प्रमाणं शिवः” इति यौगाग्रसरेणोदयनेनोक्तत्वाच्च । तत्परिहाराय केचन बालिशाः साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तं प्रमाणमिति वर्णयंति.। तथापि साधनाश्रयान्यतरपालोचनायां साधनमाश्रयो वेति फलति । तथा च परस्पराव्याप्तिलक्षणस्य । ____ अन्यान्यपि पराभिमतानि प्रमाणस्य सामान्यलक्षणान्यलक्षण - स्वादुपेक्ष्यंते । तस्मात्स्वपरावभासनसमर्थ सविकल्पमगृहीतग्राहकं सम्यग्ज्ञाममेवाज्ञानमर्थे निवर्तयत्प्रमाणमित्याहतं मतं । इति प्रथमः प्रकाशः।
SR No.022446
Book TitleNyayadipika
Original Sutra AuthorN/A
AuthorDharmbhushan Yati, Shreelal Shastri
PublisherPannalal Jain
Publication Year1915
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy