SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नय रहस्यप्रकरणम् । सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं कार्याsकरणकाले च प्रस्थकं नाङ्गीकुरुते । न च तदा घटाद्यात्मकत्वप्रसङ्गः, तदर्थक्रियां विना तत्त्वायोगात् । घटादिशब्दार्थक्रिया तत्राप्यस्त्येवेति चेत्, न- असाधारणतदर्थ ४५ व्यवहारेऽप्युक्तदिशैव शुद्धितारतम्य भावने त्याह-व्यवहारेऽपीति । प्रस्थके संग्रहवक्तव्यमुपदर्शयति-सङ्ग्रहस्थिति- वनगमनादिकं परम्परया प्रस्थककारणम्, तत्र प्रस्थकलक्षणकार्योपचारं कृत्वाऽशुद्धे नैगमेऽशुद्धे व्यवहारे च प्रस्थकव्यपदेशः, सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं नाङ्गीकुरुते, धान्यमापनलक्षणस्वकार्याकरणकाले च निष्पन्नमपि प्रस्थकं प्रस्थकत्वेन रूपेण नाङ्गीकुरुते, किन्तु धान्यमापन विशेषलक्षणक्रियाकरणवेलायामेव प्रस्थकमङ्गीकरोतीत्यर्थः । ननु निष्पन्नमपि प्रस्थकस्वरूपं स्वकार्याकरणकाले यदि न प्रस्थकस्तदा प्रस्थकान्यत् तत् घटादिस्वरूपमेव भवेदिति घटाद्यात्मकत्वं तत्र प्रसज्यत इत्याशङ्कय प्रतिक्षिपति न चेति । तदा कार्याकरणादिकाले । यथा च प्रस्थको न स्वकार्ये धान्यमापनलक्षणं करोतीति न प्रस्थकस्तथा घटादिकार्य जलाहरणाद्यर्थकियामपि न करोतीति घटाद्यात्मकत्वस्याप्यभावादित्याह - तदर्थक्रियां विनेति - घटादिकार्य जलाहरणाद्यर्थक्रियां विनेत्यर्थः । तत्त्वायोगाद् घटाद्यात्मकत्वासम्भवात् । ननु घटादेर्यथा जलाहरणादिकाऽर्थक्रिया तथा घटादिशब्दप्रयोगोऽपि शब्दप्रयोगश्चेच्छोपरचितः प्रस्थकेऽपि केपा ञ्चित् स्यादिति घटाद्यात्मकत्वं प्रसज्यत एवेत्याशङ्कते - घटादिशब्देति । तत्रापि प्रस्थकेऽपि । नहि दरिद्रे धनाधिपोऽयमिति सङ्केतकरणतो धनाधिप शब्दप्रयोगलक्षणार्थक्रियाकारित्वतो वास्तवधनाधिपात्मकत्वं सम्भवति, किन्तु धनस्वामिन एव धनस्य दानादिलक्षणार्थक्रियाकारित्वतो धनाधिपत्वमिति यदसाधारणार्थक्रियाकारित्वं यस्य तस्य तदात्मकत्वमित्येव नियम इति घटादेरसाधारणार्थक्रिया जलाहरणादिरूषैव तत्कारित्वस्य प्रस्थकेऽभावान्न तत्र घटाद्यात्मकत्वप्रसङ्ग इति
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy