SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम् । स्यान्वयव्यभिचारस्याभावात् , यद्वा समसङ्ख्यकविघ्नध्वंसं प्रति समसङ्ख्यकमङ्गलस्य कारणत्वमतो न्यूनसङ्ख्याकमङ्गलतस्तत्समसङ्ख्यकविघ्ननाशेऽपि विघ्नान्तरस्य सद्भावान्न समाप्तिरिति प्राचा मतम् ॥ नव्यमले तु विनध्वंसफलकत्वमेव मङ्गलस्य, न तद्वारा समातिफलकत्वम् , यत्र व्यापारिणः प्रमाणान्तरसिद्धकारणत्योपपत्तये व्यापारकल्पनं तत्रैव व्यापारेण व्यापारिणो नान्यथासिद्धिः, यथाआगमविहितक्रियायाः कालान्तरीणस्वर्ग प्रति कारणत्वस्योपपत्तये व्यापारस्यादृष्टस्य कल्पनमित्यदृष्टलक्षणव्यापारेण व्यापारिस्वरूपायाः क्रियाया नान्यथासिद्धिः, यत्र तु व्यापारिणः कारणत्वमन्तराऽपि व्यापारस्य कारणत्वं क्लप्तं तत्र भवत्येव व्यापारेण व्यापारिणोऽन्यथासिद्धिः, यथा-मोक्षं प्रति काशीमरणस्य, तत्र "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुत्या मोक्षं प्रति तत्त्वज्ञानस्य कारणत्वं क्लप्तम् , यस्यापि न काश्यां मरणं तस्यापि तत्त्वज्ञानान्मोक्षस्य भावादिति काशीमरणेऽपि तत्त्वज्ञाने सत्येव मुक्तिरिति व्यापारेण तत्त्वज्ञानेन क्लप्तकारणताकेन व्यापारिणः काशीमरणस्यान्यथासिद्धरिति "का शीमरणान्मुक्तिः” इत्यत्र पञ्चम्याः प्रयोजकत्वार्थकत्वम्, प्रकृतेऽपि कार्यमानं प्रति प्रतिबन्धकाभावस्य कारणत्वमिति प्रतिबन्धकाभावविधया समाप्तिलक्षणकार्यविशेष प्रति प्रतिबन्धकामा वविशेषस्य विध्नाभावस्य कारणत्वं क्लप्तमिति तेन व्यापारिणो मङ्गलस्य समाप्ति प्रत्यन्यथासिद्धिः । स्वतःसिद्धविघ्नविरहवता कृतेन मङ्गलेन विघ्नात्मकप्रतियोगिलक्षणसहकारिकारणाभावाद् विघ्नध्वंसस्याजननेऽपि मङ्गलस्य विघ्नध्वंसफलकत्वं निर्वहत्येव, यावत्सहकारिकारणसमवधाने सत्येव कारणे फलोपधायकत्वनियमोऽन्यथा तु स्वरूपयोग्यतैवेति स्वरूपयोग्यतामुपादाय निर्विघ्नपुरुपकृतमङ्गलस्य विनध्वंसफलकत्वसम्भवात् । अत एव 'मङ्गलं विनध्वंसाय वेदवोधितकर्तव्यताकं विघ्नध्वंसार्थमलौकिकशिष्टाचार
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy