SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ टीकागता मूलार्थसङ्ग्रहश्लोकाःवादिवातमतार्थसार्थघटनानैपुण्यभाजां सदा नीतीनां समयानुसारिभजनाकान्तप्रथासङ्घषां । लक्ष्याणामपि लक्षणाऽननुगमभ्रान्त्यादिदोषालयै दुर्लक्ष्यत्वमुखापमानितदृशां दुर्नीतितोच्छित्तये ॥१॥ सामान्येन नयस्य लक्षणमतिव्याप्त्यादिनाऽदूषितं तत्त्वार्थोक्त्यनुशीलितं प्रथमतो ग्रन्थेऽत्र संदर्शितम् । नो तन्त्रान्तरयोगिता न च तथा स्वातन्त्र्यमेषां सतां मानापेक्षितया किलोभयभिदाशुन्या इमा दृष्टयः ॥२॥ पता विप्रतिपत्तिभावविकला दृष्टान्ततो भाविता भेदाभेदमुखा विरोधरहिता जात्यन्तरे स्थापिताः। द्वौ भेदौ च नयस्य चात्र गदितौ द्रव्यार्थिकश्चादिमः . पर्यायार्थिकनामकस्तदितरो नाभ्यां विभिन्नो नयः ॥३॥ द्रव्यं केवलमभ्युपैति प्रथमः पर्यायमानं पर चत्वारः प्रथमस्य वृद्धगदिता मेदानयोऽन्त्यस्य तु। नव्यानां प्रय आदिमस्य गदिताश्चत्वार इटा मते चान्त्यस्येति ततो नयाः समुदिताः सतेति भाम्या बुधैः॥४॥
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy