SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम् । लाघवात् , कारणाभावस्यैव कार्याभावव्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्च। अथ क्रियमाणमित्यत्र वर्तमानत्वमानशोऽर्थः, कृतमित्यत्र चातीतत्वं निष्टार्थः, तत्र वर्तमानत्वं विद्यमानकालवृत्तित्वम्, अतीतत्वं च विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम् , विद्यमानत्वं च तत्तत्प्रयोगाधारत्वम् , प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वं तिप्युच्चारणादिसाधारणं तदादेवुद्धि. स्थत्ववल्लडादेः शक्यतावच्छेदकतत्तत्कालानुगमकम् , तच वर्तमानत्वमतीतत्वं वा धात्वर्थेऽन्वेति, धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समानविशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेहेतुत्वात् , अत एव नातीतघटज्ञानाश्रये घटं त्याह- कारणाभावस्यैवैति । क्रियमाणत्व-कृतत्वयोर्विरोधान्नैकत्र सम्भव इति क्रियमाणं कृतमित्यन्वयानुपपत्तिरित्याशङ्कते-अथेति । तयोविरोधोपपत्तये तत्स्वरूपविशेषाऽवबोधनाय चाऽऽनशाद्यर्थमुपदर्शयतिक्रियमाणमित्यति । निष्टार्थः क्तप्रत्ययार्थः। तत्र वर्तमानत्वातीतत्वयोमध्ये । तदादेरिति-बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिरिति तच्छक्यतावच्छेदकस्य घटत्व पुटत्वादेरनुगमकं यथा बुद्धिस्थत्वं तथा तत्तत्प्रयोगाधारकालवृत्त्यादी शक्तस्य लडादेः शक्यतावच्छेदकतत्तकालानुगमकं वर्तमानत्वादिकमित्यर्थः। समानविशेष्यत्वप्रत्यासत्त्येतिविशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोधं प्रति विशेप्यतासम्बन्धेन धातुजन्योपस्थितिः कारणमिति विशेप्यतासम्बन्धेन धातुजन्योपस्थितिर्धात्वर्थ एवेति तत्रैव धातूत्तरप्रत्ययार्थस्यान्वय इत्याशयः। अत एव प्रत्ययार्थस्य वर्तमानत्वातीतत्वादेर्धात्वर्थऽन्वयादेव। घटं जानातीत्यत्र लट्प्रत्ययार्थस्य वर्तमानत्वस्य ज्ञाधात्वर्थे ज्ञानेऽन्वयेनातीतज्ञाने तबाधेन नातीतघटज्ञानमादाय घटं जानातीति
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy