________________
नय रहस्यप्रकरणम् ।
१४१
सम्बन्धलाघवं विनिगमकम्, विशेष्य इव विशेषणे तत्सम्बन्धग्रहावश्यकत्वे तदसिद्धेरिति दिक् । स्थादेतत्कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयाभिमतं कारणं युक्तम्: नान्यत्, अत एव क्रियासिद्धयैव कुर्यद्रूपत्वोपपत्तौ क्रियमाणं कृतमेवेति वदन्ति । न चैवं कृतकरणासमाप्तिः, सिद्धस्यापि साधने करणच्यापारानुपरभादिति वाच्यम्, कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः । न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वम्, तादृशानामेव तेषां कचिद् ति। तदसिद्धेः सम्बन्धलाघवासिद्धेः 'स्यादेतत् कुर्वदूपत्वाच्चरमकारणमेव क्रियानयाभिमतं युक्तम्' इत्यारभ्य 'गम्भीरनयमतं कियदिह विविच्यते इत्यन्तं क्रियानयोपपादिका प्रश्नस्वरूपेणोल्लिखितैका फक्किका । समर्थस्य विलम्बायोगात् कुशूलस्थवीजं यद्यङ्कुरसमर्थं तदा तदानीमप्यङ्कुरं कुर्यादेव, अथासमर्थ तदा तेन कदाचिदप्यङ्कुरं न स्यादेव, अङ्कुरकार्याऽसमर्थशिलाशकलतः कदाचिदद्व्यङ्कुराजननात् । सहकारिसमवधाने सति सामर्थ्यं तदसमवधानेऽसामर्थ्यमित्यपि न युक्तं स्वयमसामर्थ्य सहकारिभिरपि सामर्थ्यासम्भवात् स्वयं सामथ्य चालं सहकारिभिः । किञ्च सहकारी तत्र किञ्चिदुपकारं विदधाति मवा ?, द्वितीयेऽनुपकारिणस्तस्यापेक्षाऽयोगात्, आधे उपकारेऽपि कर्तव्ये सहकार्यन्तरापेक्षाऽऽवश्यकीत्यनवस्थेत्यादियुक्तिभिः कुर्वद्रूपत्वलक्षणवैजात्येनैव कारणत्वम् कुर्यद्रूपत्वं च चरमकारणस्यैवेति कुर्यद्रूपत्वाच्चरमकारणमेव कारणं युक्त. मित्यर्थः । नान्यत् चरमकारणादन्यच्च न कुर्वद्रूपमिति न तत्कारणम् । भत एवं कुर्वद्रूपत्वाच्चरमकारणस्यैव कारणत्वादेव | 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं क्रियमाणं कृतमेवेत्युपगमे । कृतकरणासमाप्तौ हेतुमाह - सिद्धस्यापि साधन इति - निष्पन्नस्यापि निष्पादन इत्यर्थः । प्रतिक्षेपे हेतुमाह- कार्यमुत्पाद्येसि । तत्समाप्तेः कृतकरणसमाते 'नच' इत्यस्य' ' वाच्यम्' इत्यनेनान्वयः । यादृशव्यापारवतां चक्रभ्रमणा