SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रमोदाविवृतिसंवलितं योरेव सत्ताविश्रामात् , यथाकथञ्चित् सम्बन्धस्य सत्ताव्य. वहाराङ्गत्वेऽतिप्रसङ्गात् । न च देशकालयोः सत्त्वं विहायान्यदतिरिक्तं सत्त्वमस्ति यद्योगिता प्रकृते स्यात् , असत्ताबोधोऽपि चास्ति, तत्र सत्ताननुवेधात् , अन्यथा खरशृङ्गादीनामसत्ता न सिद्धयेत् । उद्देश्यासिया क विधेयाऽसत्तेति चेत्, कथं तहि वरशङ्गमसदिति व्यवहारः। खरवृत्त्यभावप्रतियोगि शृङ्गमिति तदर्थ इति चेत्, मानलक्षणस्वकाल एव निरुक्तसत्त्वेनातीताऽनागतयोस्तथाविधसत्त्वाभावेनासत्त्वमेव, तथार्थाभिधान-तथार्थज्ञानयोरपि न सदाभिधायकत्व-सविषयकत्वे इति ऋजुसूत्रस्योक्ताभिमानः सदभिमान एवेति । परदेशे परकाले च बौद्धं सम्बन्धमादाय तस्य सत्ताव्यवहाराङ्गत्वे शशेऽपि कञ्चिच्छङ्गसम्बन्धं परिकल्प्य शशशृङ्गादिव्यवहारोऽप्यापतेदित्याह-यथाकथञ्चिदिति । स्वदेशे स्वकाले च यनिरुक्तसत्त्वं तदन्तरेण नैयायिकादिपरिकल्पितं सत्त्वं नास्त्येव यदाश्रयणेन परकीयार्थादेः सत्त्वस्य व्यवहाराङ्गता स्यादित्याह-न चेति। न केवलं परकीयार्थादेरुक्तसत्त्वाभावः, किन्तूक्तसत्त्वासम्बन्धादसत्त्वाववोधोऽपीत्याह-असत्तेति । तत्र परकीयार्था दी। अन्यथा निरुक्तसत्त्वासम्बन्धादसत्तावोधाऽनभ्युपगमे । ननु खरशृङ्गादयोऽसन्त इत्याकारकाऽसत्त्ववोधे खरशृङ्गादीनामुद्देश्यत्वाख्यविषयत्वम् असत्त्वस्य च विधेयत्वाख्यविषयत्वम्', खरशृङ्गादीनुद्दिश्याऽसत्त्वं विधीयत इति तत्र खरशृङ्गादिरूपोद्देश्याऽसिद्धया तत्राऽसत्त्वविधानाऽसम्भवादिति शङ्कते-उद्देश्याऽसिद्धयेति ! यदि खरशृङ्गादीनुद्दिश्याऽसत्त्वविधान न सम्भवति तर्हि खरशाङ्गमसदिति व्यवहारस्य का गतिरिति पृच्छतिकथं तीति । तत्रोत्तरमाह-खरेति। तदर्थः खरशृङ्गमसदित्यस्यार्थः । खरशृङ्गमसदित्ति वाक्यात् खरशृङ्गविशेष्यकाऽसत्त्वप्रकारकवोध एव स्वरसत उपजायते, न तु खरवृत्त्यभावप्रतियोगित्वप्रकारक-शृङ्गविशेष्यकबोध इति खरवृत्त्यभावप्रतियोगिशृङ्गमिति तदर्थः स्वारसिको
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy