SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २८ प्रमोदाविवृतिसंवलितं क्रियाऽहेलोस्तस्य शशशृङ्गप्रायत्वात् । ननु घटोऽयं द्रव्यमिदमित्यादौ घटत्व-द्रव्यत्वादिकं कथमपह्नोतुं शक्यमिति चेत्, न कथञ्चित् ,अन्यापोहरूपं तत् , न त्वतिरिक्तमित्येव परमुच्यते, अखण्डाभावनिवेशाच नान्योन्याश्रयः। यदि द्रव्याशिदमित्यादानुगतप्रतीत्या सामान्यमिति शङ्कते-नन्विति । सामास्वं नापटप्यते किन्तु अन्यव्यावृत्तिलक्षणापोहरूपं तद्, न तु विधिधिति विधिरूपेण तदनभ्युपगम एव सामान्यानभ्युपगम इति समाजले- न कथञ्चिदिति-'अपह्रोतुं शक्यम्' इत्यनुषज्यते । तर्हि सामान्यानम्युपगमे सति विशेषाभ्युपगमो व्यवहारस्येति भज्यत इत्यत आह-अन्याऽपोहरूपमिति । तत् सामान्यम् , घटत्वं घटान्यव्यावृतिरूपं वात्वं द्रव्यान्यव्यावृत्तिरूपमित्येवं सामान्यमात्रमन्यापोहरूपतिः । इत्थं सामान्याभ्युपगमे सामान्यानस्युपगारो हीयेतेत्यत आहन त्यतिरिक्तमिति । परं किन्तु, अतिरिक्तमपोहव्यतिरिक्तम् , विधिरूपं सामान्य नास्तीत्येतावन्मात्रमेव सामान्यानभ्युपगम इत्यर्थः । ननु पटादेर्भटाद्यान्यत्वग्रहे तदन्यत्वं घटादेाह्यम्, पटादेर्घटाद्यन्यत्वग्रहच घटादी पटाद्यन्यत्वग्रहे सत्येवेत्यन्योऽन्याश्रयोऽपोहरूपसामान्याभ्युपगमे, विधिरूपसामान्याभ्युपगमे च घटत्व-पटत्वादीनां स्वरूपत एव भानसम्भवासोक्तदोषावकाश इत्यत आह-अखण्डाभावनिवे. शाचति । घटान्यान्यत्वं यदि घटत्वावच्छिन्नप्रतियोगिताकोदावच्छिनप्रतियोगिताकभेदत्वरूपेण घटत्वस्वरूपमुपेयेत तदा तत्रापि घटत्वं प्रतियोगितावच्छेदकतया सन्निविष्टमुक्तभेदत्वरूपेणैवाभ्युपगतमित्यनवस्था स्याद , यावद्घटादिव्यक्तिभिन्ना यावन्तः पटादयस्तावद्भिनत्वं घटत्वमिति यदि स्वीक्रियेत तदा तद्ग्रहो यावद्व्यक्तीनां प्रातिस्वीकरूपेणाग्रहे न भवेत् , घटादिव्यक्तीनां यावतां पटादिभिन्नत्वेन पटादिव्यक्तीनां घटादिभिन्नत्वेन ग्रहाभ्युपगमेऽन्योऽन्याश्रय स्यात् , परं नैवमुपेयते किन्तु घटान्यापोहोऽखण्डभेदस्वरूपः, तस्य स्वरूपत एव भानमित्याह-अखण्डाभावनिवेशाचेति । नन्वेवमपि तदेवाखण्डाभावस्वरूपं सामान्यमभ्युपगतमेवेति सामान्यानभ्युपगमो
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy