SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम् । वसतिराधारता, सा च यथोत्तरशुद्धानां नैगमभेदानां लोके तिर्यग्लोके जम्बूद्वीपे भरतक्षेत्रे तदक्षिणार्धे पाटलिपुत्रे देवदत्तगृहे तन्मध्यगृहे चावसेया । अतिशुद्ध नैगमस्तु वसन् वसतीत्याह । नन्वाधारताssधारस्वरूपा तत्संयोगस्वरूपा वा, उभयथापि गृहकोण इव लोकेऽप्येक क्षेत्रतया तदविशेषात् किं विशुद्धितारतम्यम् ? नात्र प्रस्थक ५१ स्यापि शब्दजन्यवोधविषयत्वम्, तत्र ज्ञानं शब्दजन्यमेवेति स्वस्यैव स्वविषयत्वमिति तदपि तादात्म्यमेव, शब्दोऽपि स्वेनाभिधीयते, स्वस्य स्वतादात्म्यमप्यस्ति स्वजन्यबोधविषयत्वमप्यस्ति तद्विषयत्वमपि तादात्म्यमेवेत्येवं तुल्यार्थत्वमिति वोध्यम् । वसतिनिदर्शनेन नैगमादीनां भावयति - वसतिरावारतेति । सा च आधारता पुनः अस्या लोकेऽवसेया तिर्यग्लोकेऽवसेयेत्येवमन्वयः । नद्दक्षिणार्धे भरतक्षेत्रदक्षिणार्धे । तन्मध्यगृहे देवदत्तगृहमध्यगृहे । देवदत्तो वसतीत्युक्ते भवति जिज्ञासा कुत्र वसतीति, तत्र नैगमाभिप्रायविशेपाश्रयणेन लोके देवदत्तो वलतीति विपुलाधारसमाश्रयणेनोत्तरवृत्तिः, क्रमेणोत्तरोत्तराऽऽधार संकोच समाश्रयणेन तिर्यग्लोके देवदत्तो वसतीत्युत्तरप्रवृत्तिः, अतिशुद्धनैगमस्तूपचारामिश्रितो देवद तस्य विद्यमाननिवासानुभवलमय एव तदाधारतामभ्युपैतीत्याहअनिशुद्धनैगमस्त्विति । लोके वलति तिर्यग्लोके वसतीत्यादौ विशुद्धितारतम्यनिमित्तं विशेषमपश्यन् परः शङ्कते नन्विति । तत्संयोगस्वरूपा आधारेण सहाssधेयस्य यः संयोगस्तत्स्वरूपा । उभयथापि आधारताया आधाररूपत्वे तत्संयोगरूपत्वेऽपि च । अतिसंकुचिताधारोपदर्शनार्थे गृहकोण इति, तेन संकुचिताऽन्याधारस्याप्युपलक्षणम् | अतिविपुलाधारोपदर्शनार्थे लोक इति, तेन विपुलाधारान्तरस्योपलक्षणम् । तदविशेषाद् आधारत्वाविशेषात् । यथा च वनगमनादौ परस्प या प्रस्थककारणे कार्यप्रस्थकोपचाराद् गौणतासम्प्रत्ययः, निष्पन्न "
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy