________________
प्रमाणनयतत्त्वालोकालङ्कारः। ३३ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ १७॥ कर्तृक्रिययोःसाध्यसाधकभावनोपलम्भात्॥ कर्ता हि साधकः स्वतन्त्रत्वात् क्रियातु साध्या कर्तृनिर्वर्त्यत्वात् ॥१९॥ न च क्रियाक्रियावतः सकाशादभिन्नैव मिन्नैव वा प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥ २० ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः॥२२॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदा