SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ सावचूरिके प्रमाणनयतत्त्वालोकालकारे चतुर्थः परिच्छेदः । अकारादिः पौगलिको वर्णः॥९॥ पुद्गलैर्भाषावर्गणापरमाणुभिरारब्धः पौद्गलिकः ॥९॥ ३ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदम्, पदानां तु वाक्यम् ॥१०॥ वर्णौ च वर्णाश्चेत्येकशेषाद्वर्णा ब्रह्मसंबोधने क इत्यादौ द्वयोः गौरित्यादौ ६ बहूनां च वर्णानामन्योन्यापेक्षाणां पदार्थप्रतिपत्तौ कर्तव्यायां परस्परं सहकारितायां स्थितानां 'निरपेक्षा' पदान्तरवर्णकृतोपकारपराङ्मुखी, संहतिमलकः । 'पदं' पद्यते गम्यते स्वयोग्योऽर्थोऽनेनेति व्युत्पत्तेः, प्रायिकत्वाच ९ वर्णद्वयादेरेव पदत्वं लक्षितं यावता विष्णुवाचकैकाक्षराकारादिकमपि पदत्वेन लक्षितं द्रष्टव्यम् । पदानां तु स्वोचितवाक्यार्थप्रत्यायने विधेयेs. न्योन्यनिर्मितोपकारमनुसरतां वाक्यान्तरस्थपदापेक्षारहिता संहतिर्वाक्यम१२ भिधीयते ॥ १०॥ संकेतमात्रेणैव शब्दोऽथ प्रतिपादयति नतु स्वाभाविकसंबन्धवशादिति गदतो नैयायिकान्समयादपि नायं वस्तु वदति इति वदतः सौगतान्परा१५ कुर्वन्ति खाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः॥ ११॥ स्वाभाविकं सहजम्, 'सामर्थ्य' च शब्दस्यार्थप्रतिपादनशक्तियोग्यता १८ नानी, समयश्च संकेतस्ताभ्यामर्थप्रतिपत्तिकारणं शब्दः । ननु शब्दार्थयोर्यदि वास्तवः संबन्धः तर्हि संकेतो वृथा । स खलु संबन्धो यतोऽर्थप्रतीतिः। स चेद्वास्तवस्तर्हि निरर्थकः संकेतः तत एवार्थप्रतीतिसिद्धेः । तदयुक्तम् । यतो न २१ विद्यमान इत्येव संबन्धोऽर्थप्रतीतिनिबन्धनम् । किन्तु स्वात्मज्ञानसहकारी यथा प्रदीपस्तथाहि प्रदीपो रूपप्रकाशनस्वभावोऽपि यदि स्वात्मज्ञानदर्शनसह कारिकृतसाहायकस्ततो रूपं प्रकाशयति । नान्यथा-(असति चक्षुषि न प्रका. २४ शयति(?))-ज्ञापकत्वात् । न खलु धूमादिकमपि लिङ्गं वस्तुवृत्त्या वयादिप्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकम् । तदुक्तमन्यैरपि-"ज्ञापकत्वादिसंबन्धः स्यात्मज्ञानमपेक्षते। तेनासौ विद्यमानोऽपि नागृहीतप्रकाशक:" ॥१॥ संबन्धस्य च परिज्ञानं तदावरणकक्षयोपशमाभ्याम् , तौ च संकेततपश्चरण. २८ भावनायनेकसाधनसाध्यौ । ततश्च संकेतादिभ्यः समुत्पमतदावरणक्षयोप
SR No.022441
Book TitlePramannay Tattvalolankar
Original Sutra AuthorN/A
AuthorVijayramsuri
PublisherSurendrasuri Jain Tattvagyan Shala
Publication Year1984
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy