SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आपाद्यताविचारः ] [ ७५ शानुव्यवसायं प्रति वह्न्यभाववत्तानिर्णयजन्यताया हेतुत्वानोपदर्शितसमूहालम्बनानन्तरं तादृशानुव्यवसायप्रसंग ः । आपत्तित्वं च मानसत्वव्याप्यजातिविशेषः । 'वमापादयामीत्याद्यनुव्यवसायसाक्षिक 'पर्व न तादिविषयतानभ्युपगमे वह्न्यादिव्याप्यवत्तादिनिर्णयजन्यतावच्छेदकं वह्न्यादिप्रकारकापत्तित्वमेव वाच्यम्, तथा च तादृशसमूहालंबनऽऽपत्त्यादौ व्यभिचार इति वाच्यम्, अनुमितिस्थलीय कार्यकारणभाव इव कारणवैशिष्ट्य निवेश्यैव व्यभिचारस्य वारणीयत्वात् । भवन्मतेऽप्यन्यापादकापत्तौ व्यभिचारवारणाय वैशिष्ट्यनिवेशस्यावश्यकत्वात् । एवं वह्न्यभाववत्तानिर्णयजन्यतावच्छेदककोटावपि तद्वैशिष्टयस्य निवेशनीयतया न तस्य समूहालंबनापत्यादौ व्यभिचारः । भवन्मतेऽपि वह्निमभेदादिनिर्णयजन्यवह्नयाद्यापादकाऽऽपत्तौ व्यभिचारवारणाय तदुद्वैशिष्ट्यनिवेशस्यावश्यकत्वात् । न च पर्वतत्वाद्यवच्छिन्नविशेष्य का ह्वया दिविशिष्टबुद्धौ पर्वतत्वाद्यवच्छिन्नविशेष्य कव हून्यभावादिमत्तानिर्णयाभाव हेतुतायां 'पर्वतो वह्निमान् स्यादि' त्यापत्तौ व्यभिचारवारणाय पर्वतत्वाद्यवच्छिन्नविशेष्यकवह्नयाद्यापादकापत्त्यन्यत्वं जन्यतावच्छेदककोटौ निवेश्यमिति तज्जन्यतावच्छेदककोटिप्रविष्टतया विशेव्यताविशेषसिद्धिः, वह्नि प्रकारकान्यत्वस्य तत्र निवेशे 'वहि१' पर्वतातिरिक्त वि.' इति दे. । २ - 'प्रकारकापत्त्यन्य०" इति दे० ।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy