SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उद्दे श्यता-विधेयताविचारः ] [ ६७ प्रत्यासत्त्या हेतुत्वोपगमान्न 'वह्निमान् पर्वतो घटवानि'त्याकारकानुमित्यनंतरं तथाविधानुव्यवसायापत्तिरिति किमतिरिक्तविधेयतया ? न च तादृशगुरुधर्मावच्छिन्नस्य तथाविधानुव्यवसायहेतुत्वकल्पनापेक्षया पर्वतविशेष्यतानिरूपितवह्निविधेयताकानुमितित्वेन तद्हेतुत्वकल्पने लाघवादतिरिक्तविधेयता सेत्स्य. तीति वाच्यम् , लाघवमात्रेणातिरिक्तविषयतासिद्धौ धूमपरामर्शादिजन्यतावच्छेदकतयापि विलक्षणविषयतासिद्धिप्रसङ्गात् । क्लप्तविषयतायास्तजन्यतावच्छेदकत्वे 'तस्या' आलोकलिङ्गकानुमितिसाधारणतया तत्र व्यभिचारवारणायाऽव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौ प्रवेशेऽतीवगौरवम् । ___ अथातिरिक्तविधेयतानभ्युपगमे सिद्धयभावजन्यतावच्छेदकं दुर्वचम् । तथाहि-'पर्वतो वह्निमानि'त्यादिसिद्ध्यभावस्य जन्यतावच्छेदकं न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनप्रकारताकानुमितित्वम् , 'वहिनमान् पर्वतो घटवानि'त्येताहशानुमितौ व्यभिचारात् । नापि पर्वतत्वावच्छिन्नविशेष्यताकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वम् , 'वह्निव्याप्यधूमवान् पर्वतो घटव्याप्यवांश्चे'त्याद्याकारकसमूहालंबनजन्यायां तथाविधानुमितौ व्यभिचारादिति चेत् १ न, वह्नित्वान्यधर्मानवच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमिति-- त्वस्यैव 'पर्वतो वह्निमानि'त्येतादृशसिद्ध्यभावजन्यतावच्छेद
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy