SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६४ ] [ विषयतावादे विशिष्टविशेष्यतात्वेनैव भूतलप्रकारतानिरूपितत्वमित्यभ्युपगमेन तद्वैलक्षण्योपपत्तेः। अवच्छेदकत्वमपि द्विविधम्-अवच्छिन्नं, निरवच्छिन्नं च । तत्रावच्छिन्नमवच्छेदकं जातिमद् भूतलं घटवदित्यादी, तत्र भूतलत्वा'दिनिष्ठविशेष्यतावच्छेदकताया जातित्वाद्यवच्छिन्नत्वात् । भूतलं घटवदित्यादौ च भूतलत्वादिनिष्ठविशेष्यतावच्छेदकत्वादिकं निरवच्छिन्नमिति । एवमवच्छेदकतानिरूपितावच्छेदकत्वादिकमपि व्याख्यातम् । अवच्छेदकतावच्छेदकं त्ववच्छेदकांशे विशेषणतापनमेवेति बोध्यम् । विषयतावद्विषयादिभेदेनानुगतानां विषयतानामनुगमकं विषयतात्वमप्यधिकमाख्येयम् , अन्यथा घटो ज्ञानविषयः पटो ज्ञानविषय इत्याकारिकाया अनुगतप्रतीतेग्नुपपत्तः । घटत्वविशिष्टबुद्धित्वावच्छिन्नं प्रति घटत्वादिविषयकज्ञानत्वादिना हेतुत्वानुपपत्तेः, घटत्वाद्यकैकवृत्तिविषयतानामेव प्रकारताविशेष्यत्वादिभेदेन नानाविधतया कारणतावच्छेदकाननुगमेन व्यभिचारप्रसङ्गात् । __ एवं विशेष्यतात्व-तत्तदवांतरावच्छेदकत्व-प्रकारता त्वादिकमप्यनुगतप्रतीतिबलादतिरिक्तमुपगंतव्यम् । अत एव दिनिष्ठविशेष्यताया' इति खं० प्रती । २ 'घटो' इति दे० । ३ 'विषयतात्व' इति दे० । ४ 'तात्वविशेष्यतात्वादि०' इति दे।
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy