SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [वादमालायां ननु घटायेकैकचक्षुःसंयोगदशायां घटपटयोः संयोगस्य द्वित्वस्य च प्रत्यक्षवारणार्थमवश्यं व्यासज्यवृत्तिधर्मप्रत्यक्षे यावदाश्रयसन्निकर्षों हेतुर्वाच्यः, तथा च तत्तद्रव्यविषयकतत्तत्समवेतचाक्षुपत्वावच्छिन्ने तत्तद्र्व्यचक्षुःसंयोगत्वेनैव हेतुत्वं पर्यवसन्नमन्यस्य दुर्वचत्वाच्च । तथा च तत एवासनिकृष्टद्रव्याप्रत्यक्षतोपपत्तौ द्रव्यचाक्षुपं प्रति चक्षुःसंयोगस्य हेतुत्वे मानाभावः । न च तत्तद्रव्यविषयकेत्यधिकं, विनापि तत्कपालचक्षुःसंयोगं कपालान्तरचक्षुःसंयोगदशायां तत्कपालसमवेतद्रव्यत्वादिजातिघटयोःप्रत्यक्षोत्पादेन तद्वयभिचारवारकत्वात् । न च तथापि तत्तद्रव्यचक्षुःसंयोगहेतुतया कपालविषयघटचाक्षपो. पपत्तावपि तदविषयकतदुपपादनार्थं द्रव्य चाक्षुपे चक्षुःसंयोगत्वेन हेतुत्वमावश्यकमिति वाच्यम् , कपालादिविषयकस्यैव घटचाक्षुषस्योपगमात् । अत एवोक्तहेतु विना तदविषयकतदापत्तिर(न ?)युक्ता तस्याप्रसिद्धत्वेनाऽनापाद्यत्वात् । न चैवं घटाकाशसंयोगादिप्रत्यक्षापत्तिः, गुरुत्वादेरिव तस्यायोग्यतयैवाप्रत्यक्षत्वसम्भवात् । यदि चातत्त्वतत्वेन योग्यत्वस्य प्रतिबन्धकत्वविश्रामे गौरवं, तदाऽस्तु द्रव्यान्यद्रव्यसमवेतचाक्षषत्वावच्छिन्ने स्वाश्रयसमवेतत्वसम्बन्धेन चाक्षुषाभावस्यानुगतप्रतिबन्धकत्वादेव तदप्रत्यक्षत्वम् । न चैवं द्रव्यप्रत्यक्ष महत्त्वस्य द्रव्यचाक्षुषे च रूपस्य हेतुत्वं न स्याद् , इष्टत्वाद् । परमाणुपिशाचाद्यन्तर्भावेन तत्समवेतचाक्षुपत्वावच्छिन्नं प्रति
SR No.022440
Book TitleVadsangraha
Original Sutra AuthorN/A
AuthorYashovijay Upadhyay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1975
Total Pages158
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy